SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्वेतवर्णा कृमयो दृष्टिगोचरा जाता: । एतद् दृष्ट्वा धनपालो 'जैनधर्मेऽहो ! ईदृशी सूक्ष्माऽहिंसा निर्दिष्टाऽस्तीति विचिन्त्य जैनधर्मे द्वेषं त्यकत्वा समादरवान् जातस्ततत्त्वानि सिद्धान्तांश्च सम्यगवबुध्य परमार्हतः श्रावको जातः । अन्यदा तेन ऋषभदेवाख्यस्य प्रथमतीर्थकृतश्चरितनिबद्धं महाकाव्यं रचितम् । तत्काव्यं च स भोजराजस्य दर्शितवान् । तद् विलोक्य भोजराजेन कथितं - भोः कवे ! यदि भवान् महाकाव्येऽत्र ऋषभदेवस्य स्थाने मदिष्टदेवस्य नाम, भरतस्य स्थाने मन्नाम, विनीतानगर्याश्च स्थाने धारानगरीं नियोजयेत् तदा भवते लक्षं सुवर्णमुद्राः पारितोषिकरूपेण दद्याम् ।' धनपालस्तन्नाऽङ्गीकृतवान् । अतः क्रुद्धो भूपालस्तत्काव्यस्य लिखितां प्रतिमग्नौ प्रक्षिप्तवान् । समग्रमपि काव्यं भस्मसाज्जातम् । द्वितीया प्रतिस्तु नाऽऽसीत् । कविस्तु दुःखितोऽभवत् गृहं च प्राप्तः । तं दुःखिनं विषण्णमन्यमनस्कं च दृष्ट्वा तस्य पुत्री तिलकमञ्जरी नाम तं विषादकारणं पृष्टवती ! तेनाऽपि यथावत् सर्वं कथितम् । तदा तयोक्तं - 'पित: ! मा कार्षीच्चिन्ताम् । प्रत्यहं भवता यावान् काव्यांशो लिख्यते स्म तमहं पठामि स्म । ततश्च यथाक्रमं समग्रमपि काव्यं मम स्मृतौ यथातथमङ्कितमस्ति ।' भवान् तत् पुनरपि लिखितु, अहं लेखयिष्यामि ।' अत्यन्तं हृष्टेन धनपालेन ततस्तन्महाकाव्यं पुनरपि लिखितं स्वपुत्र्याः साहाय्येन, तदभिधानं च तस्या नाम्ना "तिलकमञ्जरी" इति कृतम् । एतच्च काव्यमद्याऽपि समुपलब्धमस्ति प्रकाशितं चाऽपि वर्तते ॥ ५८
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy