________________
कथा
परमार्हत: कविर्धनपाल:
- सा. निसर्गप्रज्ञाश्रीः
भोजराजस्य सभायां विद्यमानेषु मूर्धन्यकविष्वन्यतमो धनपाल आसीत् । तस्य लघुभ्राता शोभन: पितृवचनपरिपालनार्थं जैनदीक्षामङ्गीकृत्य मुनिरभवत् । एतेन धनपालोऽतीव क्रुद्धोऽभवत् । तन्मानसे जैनधर्म प्रति द्वेषः समुत्पन्नः । स भोजराजं कथयित्वा धारानगर्यां जैनमुनीनां प्रवेशस्य प्रतिबन्धं कारितवान् ।
इतश्च शोभनो मुनिः शास्त्राणि सम्यगधीत्य महाविद्वान् वरकविश्चाऽभवत् । स निजभ्रातुर्जेनद्वेषं ज्ञात्वा तन्निवारणार्थं भ्रातृप्रतिबोधनार्थ च गुरोरनुज्ञां प्राप्य धारानगरी प्राप्तः । तत्र च स्वभ्रातृगृहं यावत् प्राप्तस्तावता सम्मुखमेव धनपालो मिलितः । तेनाऽपि जैनमुनिं दृष्ट्वा लघुभ्रातृतया चाऽनभिज्ञाय सोपहासं पृष्टं - "भोः ! गर्दभदन्त ! भदन्त ! सुखं ते ? " मुनिनाऽपि सोपहासमेव प्रतिपृष्टं तस्य - "भो ! मर्कटकास्य ! वयस्य प्रियं ते? " एतन्निशम्य धनपालः किञ्चिदिव विलक्षोऽभवत् । तदा स सम्यग् विलोक्य निश्चितवान् यदयं तस्य लघुभ्राता शोभनोऽस्तीति ।
ततस्तं गृहे आकार्य स्वभार्यां तस्मै किञ्चिद्दानार्थं कथितवान् । साऽपि तस्याऽग्रे मोदकान् गृहीत्वोपस्थिता । अनेनोक्तं - ‘एते न कल्पन्ते ममाऽऽदातुम् ।' तदा किञ्चिदमर्षेण धनपालः 'किमिमे विषमिश्रिता वा? येन न गृणासी'ति पृष्टवान् । 'आमिति च मुनिना कथिते स ततः कणद्वयं गृहमार्जारस्य खादितवान् । सोऽपि तस्मिन् भुक्तमात्रे मूच्छितो भूत्वा पतितः । तदा विस्मितो धनपालोऽपृच्छत् – 'भवता कथमत्र विषं ज्ञातम् ?' मुनिनोक्तं - ‘यदा विषमिश्रितमन्नं चकोरकः पक्षी पश्यति तदा स विरसं चीत्करोति । भवतो गृहसमीपस्थे वृक्षे एव चकोरकः समुपविष्टोऽस्तीति तेन चीत्कृतं मोदकानेतान् पश्यता । ततो मया ज्ञातम् ।' धनपालेन चिन्तितं - 'नूनमयं मेधावी विद्वांश्च मुनिः । तस्य तस्मिन् समादरो जातः ।
ततस्तस्य पत्नी दधि तस्मै दातुमुधुक्ता । मुनिनां पृष्टं - 'कति दिनान्यस्य जातानि ? ' तयोक्तं - 'दिनत्रयम्' । तदा मुनिना निषिद्धे तस्मिन् धनपालोऽवदत् - 'किमत्र दनि कृमयः सन्ति येन निषिध्यते भवता?' 'कामं सन्ती'ति कथयित्वा मुनिना अलक्तरस आनायितो दनि च निक्षेपितः । द्रागेव दनि चलन्तः ★ भदन्त - इति जैनसाधूनां सम्बोधनम् । (प्राकृतभाषायां भंते ! इति) ॥
५७