________________
अथ अमरो तं कुशलं ज्ञात्वा चतुर्थे मासे वाणिज्यसामग्रीमेकस्थानाद् द्वितीये स्थाने नेतुं सपनमकथयत् । चतुर्थे मासे च पूर्णे सति अमरस्सपनाय चतुःसहस्रं रूप्यकाणि दत्तवान् । अथ पञ्चमे मासे तु अमरो निजसमानं पदं सपनाय दत्तवान् वाणिज्यमपि तयोः वृद्धि प्राप्नोत् । षष्ठे मासे सपनो निजं हट्टमक्रीणात् । उत्साहेन सह स वाणिज्यमकरोत् । तस्य कुशलतया वाणिज्यमपि भृशं वृद्धि प्राप्नोत् । सप्तमे मासे तु सपनो निजं गृहमप्यगृह्णात् । व्यापारे लाभं ज्ञात्वा सपनोऽष्टमे मासे गृहस्य शोभाकृते नवीनवस्तून्यक्रीणात् । तथाऽपि व्यापारोऽवर्धत । नवमे मासे सपनस्तै रूप्यकैर्भागपत्राणि (Shares) अगृह्णात् । दशमे मासेऽपि तान्येव सपनोऽगृह्णात् । सहसा एकादशमासे सपनेनाऽऽनीतानां भागपत्राणां मूल्यमल्पं जातम् । ततो वाणिज्येऽपि तस्य बहुशो हानिर्जाताः ततश्च धनकृते सपनस्तस्य गृहस्य नवीनवस्तूनि व्यक्रीणात् । तस्य गृहमपि व्यक्रीणात् । हट्टमपि व्यक्रीणात् । एतावता एकादश मासाः पूर्णा जाताः । ततस्सपनो द्वादश मासे ग्रामे आगच्छत् । तस्य सर्वाणि मित्राणि तस्य सत्कारकृते प्रसन्नान्यासन्। किन्तु सपनस्त्वधोमुखीभूय शीघ्रमेव स्वगृहं प्रति गतः । तत्र स सर्वाणि मित्राणि विस्तरेण सर्वं वृत्तं कथितवान् । तच्छ्रुत्वा सर्वाणि मित्राणि सपनमकथयन्, तव स्थाने यद्यन्यत् किमपि मित्रं नगरं गच्छेत्, तर्हि शोभनं भवेत् । त्वं तु यादृश आसी: तादृश एवऽऽगतः । समयमपि व्ययीकृतवान् । तेषां वचनं श्रुत्वा सपनस्य बहु दुःखं संजातम् ।
अत्र ग्राम इति अव्यवहारराशिः, मित्राणि इति अव्यवहारराशौ वसन्तो जीवाः । नगरमिति व्यवहारराशिः, अमर इति सिद्धजीवः सपन इति स्वयम्, एकं सहस्रं रूप्यकमिति एकेन्द्रियत्वमित्यादि। ___ अव्यवहारराश्याः निर्गत एको जीवो मोक्षं गतः । स अन्यमेकं जीवमव्यवहारराश्याः बहिरानीतवान् । अथ तस्य जीवस्य विकासस्य प्रारम्भो जातः । प्रथमं तु स एकेन्द्रियत्वं प्राप्नोत् । पश्चादनुक्रमेण द्वीन्द्रियत्वं, त्रीन्द्रियत्वं, चतुरिन्द्रियत्वं च स प्राप्नोत् । स्वामिसमस्थितिरिति पञ्चेन्द्रियत्वमपि सं प्राप्नोत् । अग्रे वर्धमानश्च स जीवस्सम्यक्त्वं, देशविरतिं, प्रमत्तत्वं, अप्रमत्तत्वं, च ततश्च आत्मनो विशुद्धि प्रापन् स जीवोऽष्टमगुणस्थानके श्रेण्यामारोहणं करोति । विशुद्धः स जीवो यत्र सर्वेषां जीवानामेकोऽध्यवसायो वर्तते, तादृशं नवमं गुणस्थानकमपि प्राप्नोत् । अथ सूक्ष्मकषायवान् स जीवस्सूक्ष्मसंपरायं नाम दशमं गुणस्थानकं प्राप्नोत् । वीतरागस्सदृशः स जीव एकादशं गुणस्थानकं प्राप्नोत् । किन्तु अन्तर्मुहूर्तपर्यन्तमेव । __तत्पश्चादुपशान्त-मोहनीयकर्मणामुदयात् स एकादशाद् गुणस्थानकात् पतित्वा मिथ्यात्वं नाम प्रथम गुणस्थानकं प्राप्नोत् । पुनश्चाऽव्यवहारराशिमध्ये गतः।
तत्र अव्यवहारराशौ वसन्तो जीवास्तं जीवं अकथयन् – तव स्थाने अन्यो जीवो बहिर्गच्छेत्, तर्हि शोभनं भवेत् । अस्माकं त्वेवं प्रतिभातं, यत् त्वं सिद्धो भविष्यसि, अस्मच्च कमप्येकं जनं बहिरानेष्यसि, किन्तु त्वं तु यादृश आसीः, तादृश एव पुनरागच्छः । वराकस्स जीवः!! कीदृशी करुणता... पुनस्तस्य भवभ्रमणं प्रारब्धम् । मनागपि प्रमादो जीवं भवे भ्रामयति । ततो हे जीव ! प्रमत्तगुणस्थानकं प्राप्य अस्य जीवस्य सदृशी तव परिस्थितिर्न भवेत्, इत्येतदर्थं योग्यमाचरणं कुरु । आत्मशुद्धौ लक्ष्यमानीय सर्वां क्रियां कुरु । परमात्मन आलम्बनेन च त्वमात्मनः शुद्धस्वरूपं प्राप्नुहि ।
५६