SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कथा जीवस्योद्धरणम् - सा. श्रीसंवेगरसाश्रीः एको ग्राम आसीत् । तस्मिन् ग्रामे सर्वे बालास्सहै क्रीडन्ति स्म । शनैः शनैः कालोऽगच्छत् ते च सर्वे वृद्धिं प्राप्नुवन् । तेषां चैको बालो वाणिज्यकृते नगरमगच्छत् । तस्य नाम अमर आसीत् । नगरे तस्य वाणिज्यमवर्धत। ___अथैकदा ग्रीष्मावकाशदिवसेषु स्वग्रामं स आगच्छत् । सोऽचिन्तयत्, व्यापारे ममैकस्य जनस्याऽऽवश्यकताऽस्ति । ततोऽन्यतः कुतोऽपि स्थानादहं यदि जनं नयेयं ततोऽपि मम ग्रामादेवैकं जनमहं नयेयं, येन सोऽपि अग्रे गच्छेत् । ततः स मित्राण्याहूयाऽकथयत्- 'युष्मत् सर्वेभ्यः कमप्येकं जनमहं नगरे नेष्यामि । ततो भवन्तः सर्वे मिलित्वा निश्चयं च कृत्वा मां कथयतु, यत् कः आगमिष्यति मया सह ? यो जनश्च मया सह आगमिष्यति, तेन एकादश मासान् तत्रैव वसनीयमिति । द्वादशे च मासे अत्राऽऽगन्तव्यम् ' । तस्य कथनं श्रुत्वा सर्वाणि मित्राणि नगरं गन्तुं सज्जीभूतानि । ते सर्वे जनाः सहसाऽवदन्, अहं गमिष्यामि, अहं गमिष्यामि । ततस्तस्मादेकोऽनुभवी जन एवमवदत् - 'बान्धवा ! अस्मासु सर्वेषु असौ सपनोऽध्यापने कुशलोऽस्ति । ततस्स एव नगरं गच्छेत्' । सर्वे जना अपि तस्य सम्मतिमार्पयन् । अथ निश्चिते काले अमरेण सह सपनो नगरं गन्तुं निर्गतः । तस्य सर्वाणि मित्राण्यपि तस्मिन् दिने प्रसन्नान्यासन् । मार्गे अमरस्सपनमकथयत्, आवां द्वौ मिलित्वा व्यापारे वृद्धि च कृत्वा अस्माकं ग्रामादन्यौ द्वौ ग्रामजनौ नगरमानेष्यावः । तत्श्रुत्वा सपनोऽपि सम्मतिमार्पयत् । नगरं गत्वा अमरस्सपनमकथयत्, अत्र त्वया गृहकार्य, गृहस्य शुद्धिः पाककार्यं च करणीयम् । सपनेनाऽपि तस्य वचनं स्वीकृतम् । एवं चैको मासः पूर्णो जातः । अमरस्सपनाय एकसहस्रं रूप्यकाणि दत्तवान् । अथ अमरोऽचिन्तयत्, यत् सपनो हि सर्वं गृहकार्यं प्रातःकाले एव करोति । मध्याह्नकाले तस्य पार्श्वे किमपि कार्यं शेषं न तिष्ठति । ततो यद्यहं तं हट्टे नयेयम्, तर्हि स हट्टस्य शुद्धिमपि कुर्यात् । ततस्सपनमाहूय अमर एतदकथयत् । सपनोऽपि तत्कार्यकरणाय प्रसन्नतापूर्वकं सम्मतिमदर्शयत् । एवं च द्वितीयमासोऽपि व्यतीतः । अमरस्सपनाय द्विसहस्रं रूप्यकाणि दत्तवान् । अथ अमरो तं योग्यं ज्ञात्वा तृतीये मासे वाणिज्यस्य कागदानि एकस्थानाद् द्वितीय स्थाने नेतुं सपनमकथयत् । एवं तृतीयमासोऽपि पूर्णो जातः । अमरस्सपनाय तस्य कार्यकृते त्रिसहस्रं रूप्यकाणि दत्तवान् ।
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy