________________
कथा
परमस्य प्रेम
- सा. श्रीसंवेगरसाश्री:
कृष्णमहाराजस्य महिषी रुक्मिण्येकदा स्वप्ने राधामपश्यत् । तां दृष्ट्वा साऽपृच्छत् - 'राधे ! भगिनि ! अत्र द्वारिकायां सर्वविधमपि सुख-सौविध्यमस्ति । अहमन्याश्च सर्वा अपि महिष्यः कृष्णमहाराज प्रीणयितुं कमपि सदुपायं न मुञ्चामः । तथाऽपि यदा-कदाचिदपि महाराजस्य कर्णयोर्भवत्या नाम पतति तदा तत्क्षणमेव स उदासो भवति । अतोऽहं भवत्यै एतावदेव पृच्छामि यत् - तव प्रेम्णि समर्पणे च तादृशं विशिष्टं किं वाऽस्ति यन्नः समीपे नास्ति ?'
रुक्मिण्या वचः श्रुत्वा राधाऽप्यस्वस्था जाता । क्षणोनैव स्वस्थीभूय साऽवदत् - 'अस्य प्रश्नस्योत्तरं भवती श्रीकृष्णस्यैव पृच्छतु' । एतावति श्रुतमात्रे एव रुक्मिण्या निद्राभङ्गो जातः । प्रभाते सा कृष्णमहाराज कथितवती - 'स्वामिन् ! अद्य रात्रौ मया स्वप्ने राधा दृष्टा....' । राधाया नाम्नि श्रुतमात्रे कृष्णस्याऽक्ष्णोरश्रुधारा निर्गता । एतच्च दृष्ट्वा रुक्मिणी क्षुब्धाऽभवत् तथाऽपि धैर्यमवलम्ब्य सा कृष्णायाऽश्रुनिर्गमनस्य कारणं पृष्टवती । कृष्णेनोक्तं - 'राधैवैतत्कारणज्ञानार्थं त्वया प्रष्टव्या' इति ।
ततश्चोत्तरं प्रतीक्षमाणाया रुक्मिण्याः स्वप्ने पुनरप्येकदा राधा समागता । तदात्वे च सा किञ्चित् स्वस्था प्रतिभाताऽतो रुक्मिणी तस्यै कृष्णस्याऽ श्रुनिर्गमनस्य कारणं पृष्टवती। तदा राधयोक्तं - 'भगिनि ! यदा भवती कृष्णस्य मयि स्नेहस्य कारणं मे पृष्टवती तदा मम कृष्णस्य स्मरणं जातं, ततश्च तस्य स्मरणेन तद्विरहवेदनया चाऽहं भृशमरोदम् । यदा च भवती तदर्थं कृष्णाय पृष्टवती तदा सोऽपि मम स्मरणेन गद्गदो जातोऽश्रूण्यस्रावयच्च । अस्योभयस्य कारणमिदमेव यदावयोर्द्वयोरपि निर्दोषं प्रेमाऽस्ति । वयं वृन्दावनस्याऽकिञ्चना गोप्यः स्मः । अस्माकं तु कृष्ण एव सर्वस्वम् । तस्य स्मरणेन च रोदनमेवाऽस्माकं स्वभावः । अथ चैतावदेव भवत्यै प्रार्थयेऽहं यद् भवत्या तादृशं किमपि न कर्तव्यं कृपया, येन श्रीकृष्णोऽस्मान् स्मरेत् । तथा श्रीकृष्णस्याऽपि ममैका विज्ञप्तिः कर्तव्या यत् - 'अश्रूणि राधाया नेत्रयो राजेरन् न पुनर्योगीश्वरस्य श्रीकृष्णस्य नेत्रयोरिति' ॥