________________
कथा
सरलता
- सा. तत्त्वनन्दिताश्रीः
चन्दनपुरनगरे चन्दनदासो नाम एकः सज्जनः कुटुम्बेन सह प्रतिवसति स्म । तस्य मङ्गलदास-जिनदासौ नाम द्वौ पुत्रावास्ताम् । मङ्गलदासः स्वार्थशील आसीत् । स सेवावसरे कदाऽपि न तिष्ठति स्म, भोजनेऽग्रेसर आसीत्, कार्ये च तन्द्रालुः । स स्वस्य भ्रातरं जिनदासमपि वञ्चयति स्म।
जिनदास: सेवावसरेऽप्रमत्तः, कार्ये च कुशल आसीत् । न कस्मिन्नपि कार्ये फलमपेक्षते स्म । कदाऽपि, कस्याऽपि च सेवायां स तत्परस्तिष्ठति स्म, सर्वेषां जनानां च हितमिच्छति स्म।
द्वयोः भार्ययोरपि तयोरिव गुणा आसन् । मङ्गलदासस्य पत्नी मायाविन्यासीत्, जिनदासस्य च भार्या सरला आसीत् । ____ एकदा चन्दनदासो व्याधिग्रस्तो जातस्तदा द्वौ पुत्रौ तस्य सेवायामुपस्थितौ जातौ । जिनदासस्सेवायां तत्पर आसीत् । किन्तु मङ्गलदासस्य हृदये सद्भावो नाऽऽसीत् ।।
चन्दनदासो द्वयोः स्वभावं जानाति स्म । तथाऽपि स द्वौ पुत्रौ आहूय कथितवान् यत्, अथ मम जीवितं न चिरम् । ततो युवाभ्यां मृत्योः पश्चात् सम्यक्रीत्या प्रेम्णा च स्थातव्यम् । अहं युवयोरेकं रहस्यं कथयितुमिच्छामि । तत् शृणुतम् ।
अस्माकं भाण्डागारे द्वे मञ्जूषे स्तः । एकस्यां मञ्जूषायां सुवर्णस्य मुद्रिकास्सन्ति, द्वितीये च ताम्रस्य मुद्रिकास्सन्ति । युवां परस्परं मिलित्वा गृह्णीतम्, इति कथयित्वा तयोः पिता मृत्युं प्राप्नोत् ।
पितुरन्तिमक्रियां कृत्वा कपटकुशलो मङ्गलदासो जिनदासं कथितवान् – हे भ्रातः ! अहं पित्रा सह बहुकालपर्यन्तं वाणिज्यमकवम्, ततः सुवर्णस्य मुद्रिका यस्यां मञ्जूषायां सन्ति, तां मञ्जूषामहं नेष्यामि, त्वं च ताम्रस्य मञ्जूषां गृहाण ।
सरलो जिनदासो भ्रातुर्वचनं स्वीकृत्य ताम्रमुद्रिकाभृतां मञ्जूषां गृहीत्वा स्वीयं गृहमगच्छत् । गृहं च गत्वा जिनदासेन जिनेश्वरस्य नामस्मरणं कृत्वा मञ्जूषा उद्घाटिता ।
५२