SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कथा नाम्नि किमस्ति ? सा. श्री सौम्यप्रभाश्रीः यथा नाम तथा गुणा: - यादृशं नाम भवति तादृशा गुणा अपि भवन्ति - इति तु बहुधा दृश्यतेऽपि । किन्तु सर्वदाऽप्येवमेव भवतीति तु न सत्यम् । एकं नगरमासीत् । तत्र बहवः श्रेष्ठिनोऽवसन् । एकस्य श्रेष्ठिनो रूपवती गुणवती च कन्याऽऽसीत् । श्रेष्ठिना तस्याः कृते एकः सुरूपो गुणवान् कलावांश्च श्रेष्ठिपुत्रो विलोक्य तेन सह तस्या विवाहः कारित: | स श्रेष्ठिपुत्रो यद्यपि तस्याः कन्यायाः मनसि सर्वथोचितः प्रतिभातः, सा तस्मिन् बहु स्निह्यति स्माऽपि, तथाऽपि तस्य नाम ठन्ठनपाल इत्यासीत्, यच्च तस्यै न रोचते स्म । यदा-कदाचिदपि सा तदेव चिन्तयति स्म यद् न शोभनमिदं नामेति । एकदा सा जलमानेतुं नगराद् बहिर्गता । तावता तयैका स्त्री गोमयं चिन्वती दृष्टा । तत्पार्श्वं प्राप्ता सा तामपृच्छत् - 'भोः ! किं ते नाम ?' तयोक्तं - 'मम नाम लक्ष्मीः' । एतन्निशम्यैषा विस्मिता चिन्तितवती च - 'अहो ! नाम्ना लक्ष्मीरप्येषा गोमयं चिन्वती दृश्यते, महदाश्चर्यकरं खल्वेतत् !' | ततो जलं गृहीत्वा गृहं प्रतिनिवर्तमाना सा कञ्चन दरिद्रं भिक्षां याचमानं दृष्टवती । सोऽपि तया पृष्टः ‘किं तेऽभिधानम् ?' तेनोक्तं - 'मम नाम धनपाल:' इति । श्रुत्वैतत् 'किं धनपालोऽपि सन्नेष भिक्षां याचते खलु ?' इति चिन्तयन्ती साऽग्रेऽगच्छत् । ५१ — मध्येमार्गं तया कस्यचिज्जनस्य स्मशानयात्रा दृष्टा । 'कोऽयं मृतः ?' इति तया पृष्टे कश्चनोदतरत् - 'अमरचन्द्रनामाऽयं श्रेष्ठी प्रातरेवाऽद्य मृत:' इति । 'अरे ! अमरचन्द्रोऽपि नाम यद्रि म्रियेत तदा किं नु कर्तव्यम्?' इति चिन्तयन्ती सा बोधं प्राप्तवती यद् 'नामनि न किमप्यस्ति, गुणास्तु मनुष्यस्य पुरुषार्थमेवाऽवलम्बन्ते, अतो नाम्नो मोहो न कर्तव्यः' । "लक्ष्मीर्गोमयमुञ्छन्ती, भिक्षते धनपालकः । मृतश्चाऽमरचन्द्रो हि, श्रेष्ठष्ठन्ठनपालकः ॥”
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy