________________
"एकमपि न " सोक्रेटिसस्त्वरितमुक्तवान् ।
सविस्मयाः सहचराः पृष्टवन्तः - "भोः सुहृत् ! कथमेवं वदसि ? अधुना तु केभ्यश्चित् क्षणेभ्यः प्राक् त्वयैव पण्यशालाया नैकानि द्रव्याणि शोभनानि सुन्दरतमानि अत्युत्तमानि कथितानि, तमुधुना कथमेवं वदसि यदेकमपि द्रव्यं न क्रेतव्यमिति ? तव कथने विरोधाभासो नाऽनुभूयते किल?"
"शृणुत ।" सोक्रेटिसः सगाम्भीर्यमुक्तवान् - "अहं सिद्धान्तस्नेह्यस्मि । यच्च द्रव्यमुत्तमं प्रतिभासेत तद्रव्यमुत्तमं नूनं कथयितव्यम् । परं, कीदृशमप्यद्भुतं द्रव्यं भवेत्, विनाऽऽवश्यकतां तन्न क्रेतव्यम् । नैतावद्, उपहाररूपेणाऽपि तस्याऽनङ्गीकार एवोचित इति मम सिद्धान्तः । अतो मम कथने ईषदपि विरोधाभासो न वर्तते । अपि तु मया यत्कथितं तत्सर्वं यथासिद्धान्तमेव कथितम् ।" ___ सोक्रेटिसस्योत्तमविचारस्य स्पर्शात् तत्रस्थैस्तैः सहचरैः सोक्रेटिसः संस्कारपयःशालासदृशोऽनुभूतः । यतो पय:शालासमीपाद् यथा शीतजलं प्राप्यते तथा सोक्रेटिससमीपाज्जाने तैः संस्कारजलमेव प्राप्तमिति ।
सोक्रेटिसस्याऽयं जीवनप्रसङ्गोऽस्मान् बोधयति - आसक्तिवशाद् सङ्ग्रहशीलो न भवेत्, किन्तु आवश्यकतामाश्रित्य तदर्थ एव सङ्ग्रहः कर्तव्यः ।
(३) हृदयस्थ आरक्षकः अमेरिकादेशीया घटना । तत्रस्थं 'डन्कर्क' इत्याख्यं नगरम् ।
एकदा तत्रस्थो 'रेमन्ड' इत्याख्यः ख्यातिप्राप्तः कश्चिन्न्यायाधीशः स्वयानचालकमुक्तवान् - "भोः ! अहं शीघ्रं न्यायालयं गन्तुमिच्छामि । तत्र महत्त्वपूर्णकार्यं मां प्रतीक्षते।" __न्यायाधीशः कारयाने उपविष्टवान् । कारयानं च नगरस्य राजमार्ग आशुगत्या धावितुमारब्धवत् । अग्रे चतुष्पथेऽवरोधसूचको यातायातसङ्केतः प्रकाशते स्म । किन्तु, यानचालकः सङ्केतमुपेक्ष्य कारयानमचालयत्।
न्यायाधीशेन ज्ञातं यद् यातायातनियमभङ्गोऽभूत् । एतस्याऽपराधस्य दण्डः पञ्चडोलरमितो भवेत् । सोऽचिरादारक्षकस्थानं गतवान् । दण्डशुल्कं च यच्छन् कथितवान् - "मित्र ! मम यानचालकेन यातायातनियमः खण्डितः । अत इदं दण्डशुल्कं ग्रहीतव्यं, तस्य च स्वीकारपत्रं देयम् ।"
सन्मुखे महान् न्यायाधीश आसीत् । अत आरक्षकाधिकारी अपि दण्डं ग्रहीतुं सङ्कोचमनुभूतवान् । स उक्तवान् - "मान्याः । यातायातारक्षकेण भवतो दण्डो न कृतः, तथाऽपि कथं दण्डशुल्कं देयम् ?"
न्यायाधीश उक्तवनान् - "भोः ! कामं यातायातारक्षको मां न दण्डितवान्, किन्तु ममाऽन्तःकरणेऽपि एक आरक्षको विद्यते । तेन त्वहं दण्डित एव । अतो दण्डशुल्कमावश्यकमेव ।" इदं श्रुत्वाऽऽरक्षकः क्षणं यावन्नेत्रे निमील्येममादर्श पुरुषं वन्दितवान् ।
एवं नाऽनुभूयते यदस्माकमन्तःकरणेऽपि एतादृश एक आरक्षक आवश्यकः ? योऽस्मान् पापेभ्यो दोषेभ्यश्च रक्षेत्, अस्मज्जीवनं च निर्दोषं रचयेत् ?
४८