________________
पथिकैर्लज्जया सह कबीरस्य वचनमङ्गीकृतम् । अद्य यावत् कबीरस्य जीवनवैशिष्ट्यं तेषां श्रवणविषयमेवाऽऽसीत्, परमद्य तद् वैशिष्ट्यमनुभविषयमपि जातम् ।
भिक्षोः कबीरस्याऽयं जीवनप्रसङ्गो यदा ज्ञातस्तदाऽऽप्तवाणीस्मरणमभूत् - 'महापुरुषाणां हृदयं विश्वसदृशं विशालं मेघसदृशं चोदारं भवतीति । जीवनेऽस्माभिः सह शुभोऽशुभो वा कीदृशोऽपि व्यवहारो भवेत्तदा स्थिरमविचलं शान्तं स्थेयमिति सद्बोधोऽपि अनेन प्रसङ्गेन प्राप्यते । अस्माकं शुभव्यवहारो नैकेषां हृदयपरिवर्तनं कर्तुं क्षम इति न विस्मर्तव्यम् ।
(२) संस्कारपयःशाला ग्रीसदेशीयस्तत्त्वचिन्तकः सोक्रेटिसः ।। तस्याऽयं प्रेरको जीवनप्रसङ्गः। ग्रीसदेशीयमेकं विशालं नगरम् ।। एकदा तस्मिन्नगरेऽद्यतनीय मोल'सदृश्या विशालपण्यशालाया उद्घाटनमायोजितम् । उद्घाटनकर्तृरूपेणाऽऽयोजकैः सोक्रेटिसायाऽऽमन्त्रणं दत्तम । सोक्रेटिस आमन्त्रणं स्वीकृतवान् ।
यथादिनं यथासमयं मित्रसमूहैस्सह सोक्रेटिस उद्घाटनस्थलं गतः । पण्यशाला भव्याऽऽसीत्, तस्याश्चोद्घाटनोत्सवोऽपि भव्यो जातः । उद्घाटनोत्सवस्य पश्चात् सोक्रेटिसः समित्रसमूहो विशाल-पण्यशाला निरीक्षितुमन्तर्गतः।
पण्यशालायामत्युत्तमानि नैकनि द्रव्याणि विद्यन्ते स्म । एकैकं पदार्थं पश्यन् सोक्रेसिो मित्रैः सहाऽग्रेऽचलत् ।
पण्यशालायां कस्मिंश्चित्स्थाने सोक्रेटिसो निनिमेषनेत्राभ्यामेकं द्रव्यं पश्यति स्म । तदा मित्रेणैकेन सोक्रेटिस: पृष्टः - "मित्र ! कीदृशं दृश्यत इदं द्रव्यम् ।"
सोक्रेटिस उक्तवान् - "शोभनम् ।" "अयं च पदार्थः ?" सहचरः पुनः पृष्टवान् । "अत्युत्तमः " उत्तरं प्राप्तम् ।
पश्चात् पञ्चषा घटिका यावत्ते सर्वे पण्यशालायां पर्यटनमकुर्वन् । सर्वत्रोक्त एवोपक्रमोऽविरामेणाऽचलत्। मित्राणि 'कीदृशः पदार्थोऽयम् ? कीदृशं द्रव्यमिदम् ?' इत्यपृच्छन् । सोक्रेटिसश्च तस्य 'शोभनं, सुन्दरतमं, अत्युत्तममिति' उत्तराणि अयच्छत् ।
अन्ततः पर्यटनं पण्यशालानिरीक्षणं च समाप्तं जातम् । मित्रैः सोक्रेटिसः पृष्टः - "मित्र ! पण्यशालाया एकमद्भुतं द्रव्यमुपहाररूपेण तुभ्यं समर्पयितुमिच्छामो वयम् । वद, कीदृशं द्रव्यं क्रेतव्यम् ?"