________________
कथा
संस्कारप्रपा
- मुनि अक्षयरत्नविजयः
(१) जीवनवैशिष्ट्यम् केभ्यश्चिद्देशेभ्यश्चत्वारः पथिकाः काशीनगरमागताः । महापुरुषः सन्न्यासी कबीरोऽत्र निवसतीति तैः श्रुतम् । अतः कबीरस्य दर्शनार्थं ते ग्रामं प्राविशन्। ग्रामप्रवेशकाल एव तैर्बहिर्दामाद् गच्छन् कश्चिद् मुण्डितशीर्षो जनो दृष्टः ।
पथिका उद्विग्ना अभवन् - अनेन मुण्डितजनेनाऽपशकुनं कृतमिति विचारात् । एकः पथिकस्तस्य मस्तकेऽङ्गुलिकाप्रहारमपि कृतवानपशकुननिवारणार्थम् ।
परमन्येऽवदन् – 'भोः ! एवमपशकुनं नष्टं न भवेत् । तत्कृते तु तस्य शीर्षोपरि पादत्राणेन प्रहारः कर्तव्यः।'
इदं श्रुत्वा स पथिकः स्वस्य पादत्राणं निष्कास्य तस्य शीर्षोपरि प्रहारं कृतवान् । पश्चादानुपूर्व्या सर्वे पथिकास्तस्य मुण्डितजनस्य शीर्षोपरि पादत्राणप्रहारं कृतवन्तः । अत्रान्तरे स मुण्डितजनः स्थिरतापूर्वं तत्र स्थितवान् । स मनागपि न क्रुद्धवान् ।
पथिका अग्रे गताः । क्रमेण भिक्षोः कबीरस्य निवासस्थानं ते प्राप्तवन्तः । तदानीं कबीरवर्यः शौचक्रियार्थं बहिर्गत आसीत् । अतः पथिकाः कबीरस्य प्रतीक्षार्थं गृहाद् बहिरुपविष्टवन्तः ।
अर्धघटिकां यावत् समयो गतः पश्चात् कबीरवर्य आगतः । परन्तु, तं दृष्टवा पान्थाः स्तब्धलोचना जडा अभवन् । यतो यस्य जनस्य मुण्डितमस्तके प्रातस्तैः पादत्राणप्रहारः कृताः, स एवाऽयं कबीरः । ते सर्वे नतशीर्षाः स्थिताः । पश्चात् सर्वे पान्थाः कबीरस्य चरणकमलयोः पतितवन्तः । स्वानुचितव्यवहाराय क्षमां याचितवन्तः । ____ परं कबीरो महापुरुष आसीत् । स हृदयत उक्तवान् - "महाशयाः । न किञ्चिल्लज्जाकारणम् । यतः प्रातर्भवद्भिरपशकुननिवारणार्थं मम शीर्षे पादत्राणप्रहाराः कृताः । किन्तु, अधुना भवन्तो ममाऽभ्यागताः सन्ति । अतो भोजनानन्तरमेवेतो गन्तव्यम् ।" ।
४६