________________
भिक्षुको राज्ञो वचनं निशम्यैव किमप्यनुक्त्वाऽन्यत्र गतवान् ।
गुरुदेव एतत्कथानकं श्रावयित्वोक्तवान् - श्रेष्ठिन् ! ज्ञातं किल ? राज्यार्धादपि नयनस्यैकस्य मूल्यमधिकमस्ति । अस्माकं समीपे तु दृष्टियुगलं, द्वौ पादौ, हस्तद्वयम्, एवमखण्डं सुन्दरं निरामयं च देहमस्ति । वद, अधिकं मूल्यं कस्याऽस्ति ?