________________
(४) सकलशास्त्रपारगामी काशीनगरस्य कश्चिद् राजा।
तेन विशाला विद्वत्सभाऽऽयोजिता । तत्कृते देश-विदेशानां पण्डितवर्याणामामन्त्रण-पत्राणि प्रेषितानि। विद्वद्गोष्ठ्यर्थं विशिष्टायोजनानि कृतानि ।
विद्वद्गोष्ठीदिनमागतम् । देश-विदेशेभ्यो नैकशताः पण्डिता आगताः । अस्यां सभायां निकटस्थस्य कस्यचिद् ग्रामस्य मूर्खः क्षौरिकोऽपि गन्तुकामो जातः । सोऽपि गोष्ठीदिनात् प्राक् स्वीये कलशास्त्रे पुटके गृहीत्वा काशीनगरं गतवान् । पण्डितानां च स्तोकपरिचयात् कानिचित् संस्कृतवाक्यानि अपि वक्तुं सक्षमोऽभूत् ।
अन्ततो गोष्ठी आरब्धा । किन्तु गोष्ठीप्रारम्भ एव सभाध्यक्षपदे कः पण्डितो विराजमानो भवेदिति प्रश्नः समुपस्थितो जातः । सभामध्ये केचिद् विद्वद्वर्या न्यायविषयेषु, केचित् साहित्यविषयेषु, केचिद् व्याकरणविषयेषु, केचित् काव्यविषयेषु निष्णाता आसन् । विद्वानिव सभामध्य उपविष्टो नापितोऽपि राज्ञा पृष्टः - “पण्डितवर्य ! त्वं कीदृशो ज्ञानवानसि?"
"अहं सकलशास्त्रपारगामी अस्मि ।" क्षौरिकः सगर्व उक्तवान् ।
राजा श्रुत्वेदमतिहृष्टः । स सहसा उक्तवान् - "अतिशोभनम्, अत्र सर्वविषयाणां ज्ञाता त्वमेवाऽसि । अतस्त्वं सभाध्यक्षपदे नियुक्तो भवसि ।"
क्षौरिकस्त्वतिसुखमनुभूतवान् । स सभापतिपदं प्राप्य मुख्यासन उपविष्टवान् । अथ सभाकार्यमारब्धम्। ___ विविधविषयेषु नैकदिनानि यावदतिक्लिष्टचिन्तनानि अभवन् । अत्रान्तरे सर्वथा अज्ञानशिरोमणिः स क्षौरिको मौनेनैव तत्र स्थिवान् । अतः सर्वे विद्वांसस्तस्य मूर्खत्वं न ज्ञातवन्तः । यत उक्तमपि 'बलं मूर्खस्य मौनित्वम्' इति । मूर्खस्य वैभवो मौनमेवाऽस्ति । __चिन्तननिष्कर्षदिने निर्णयं दातुं राज्ञा सभाध्यक्षरूपेण स्थितः स मूर्खः क्षौरिक उक्तः, तदा किङ्कर्तव्यमूढः स उक्तवान् – 'अहं त्वेतत्सर्वं किञ्चिदपि न जानामि । नाऽहं कोविदः, अहं तु निकटस्थग्रामस्य क्षौरिकः । पण्डितसभां द्रष्टुमेवाऽहमत्राऽऽगतः । ___इदमाकर्ण्य सर्वे पण्डितप्रवरा जडा एवाऽभूवन् – 'वयं कस्यचिन्मूर्खस्य सन्मुखं गहनचर्चा कृतवन्त' इति चिन्तनात् ।
राजाऽपि क्रुद्धः सञ्जातः । स पृष्टवान् - "भोः ! यदि त्वं सर्वथाऽज्ञोऽसि, तर्हि 'अहं सकलशास्त्रपारगामी अस्मि' इति कथनस्य कोऽर्थः ?"
क्षौरिक उक्तवान् - "महाराज ! क्षमस्व माम् । परं, मया तु मनागपि अभ्यासो न कृतः । तथाऽपि अहं सकलशास्त्रपारगामी निःशङ्कमस्मि ।" इत्युक्त्वा क्षौरिकः स्वस्य पुटकात् कलशास्त्रे निष्क्राम्य दर्शितवान्
४९