SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपरिचयः संस्कृतकवितागौरवम् (संस्कृतकवितासंग्रहः) - डो. रूपनारायणपाण्डेयः रचयिता तथा प्रकाशकः - डो. रामकिशोर मिश्रः २९५/१८, पट्टीरामपुरम्, खेकडा (बागपत) उ.प्र. - २५०१०१ विद्यन्ते साम्प्रतं सुरभारतीसमुपासनासक्ता बहवो विद्वांसः, तेषु वार्धक्येऽपि सततं साहित्यं संरचयति डा. रामकिशोरमिश्रः । 'संस्कृतकवितागौरवम्' इति नामकः तस्य नूतनः काव्यसंग्रहः प्रकाशितोऽस्ति । ग्रन्थेऽस्मिन् पञ्चदशोत्तरशतकविताः सङ्कलिताः सन्ति । तद्यथा - ईश्वरस्य व्यापकता, भगवदर्शनं कृतम्, तपस्या मातृसेवया, त्वं कन्याविवाहान् कुरु, बिडाल्यां कालीदर्शनम्, सेवा सर्वोपरि धर्मः, निद्रोपासना, इत्याद्याः । ग्रन्थान्ते लेखकस्य परिवारस्य च परिचयः शोभते । नितरां सरलया भाषया विविधविषयान् समाश्रित्य कविवर-मिश्रस्य भारती भव्यभावोपेतां कवितां प्रस्तौति । तस्य राष्ट्रप्रीतिः प्रशंसनीयाऽस्ति । 'तदहमस्मि भारतम्' इति कवितायां भारतपुरुषस्य तस्य कल्पनावलोकनीयाऽस्ति। 'अहमत्र भारतोऽस्मि मस्तको मे हिमालयः । एतौ स्तौ मदीयौ हस्तौ पूर्वापरपयोनिधी ॥ उत्तरदेशो मे वक्षो मध्यदेशो ममोदरम् । महाराष्ट्रप्रदेशो मे समुद्रवृता मे कटिः ॥ आन्ध्रतमिलनाडु च द्वे जो भवतो मम । चरणौ मम स्तः कन्याकुमारीह रामेश्वरम् ॥' (सं., ३१६-३१८) अद्य मानवः कर्तव्यं विनैव पदं प्रतिष्ठां विपुलां च सम्पदं कामयते । सन्दर्भेऽस्मिन् कवेः केचन निर्देशाः पठनीया अनुगमनीयाश्च । 'यावत् ते सुखदो लाभः परहानिः सुखप्रदा । तावत् ते नाऽत्र कल्याणं हानिश्चैव भविष्यसि ॥ ३८
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy