SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपरिचयः अमरकोश: (गूर्जरभाषीयानुवादेन सह) -प्रा. मधुसूदनव्यासः पूर्वसम्पादकोऽनुवादकश्च - धर्मचंद - केवलचंद - खंडोलः सम्पादकः - प्रा. हर्षवदनः त्रिवेदी प्रकाशनवर्षम् - (पूर्वम् - ऐसवीयं १९१० तमम्) ऐसवीयं २०१६ तमम् । मूल्यम् - रू. ४५०/- , पृष्ठानि - ४९२ प्रकाशनम् ___- श्रीपार्श्व-पब्लिकेशन, १०५, नन्दनकोम्प्लेक्ष, मीठाखली नटराज सिनेमा-रेल्वे क्रोसिंग समीपे, अहमदाबाद - ६ "अमरकोशो जगत्-पिता" इति सूक्तिः संस्कृत साहित्यजगति प्रसिद्धाऽस्ति । तादृशस्य जगत्पितृतुल्यस्याऽस्य अमरकोशस्य गूर्जरानुवाद सहितं प्रकाशनं ऐसवीये १९१०तमे वर्षे जातमासीत् । तस्य (प्रा. हर्षवदन-त्रिवेदी महोदयेन) पुनः सम्पादनं कृत्वा पार्श्व-पब्लिकेशन-संस्था द्वारा ऐसवीये २०१६तमे संवति पुनःप्रकाशनं जातम् । एतदर्थं प्रा. हर्षवदन-त्रिवेदी-महाभागः पार्श्व पब्लिकेशन संस्था च साधुवादमर्हतः । __ अस्य ग्रन्थस्य पूर्वतन-प्रस्तावना पूर्वतन-सम्पादकीयो लेखश्चाऽत्र यथातथं मुद्रितोऽस्ति, यत्राऽमरकोशस्य संस्कृतभाषाभ्यासिनां कृते उपयोगितां, अमरकोशस्योपयोगश्च कथं कर्तव्य - इत्यादि विषयमधिकृत्य सुष्ठ निरूपणं कृतभस्ति । तदनन्तरं 'डिजिटल्-युगे अमरकोशः' इत्याख्येऽद्यतनसम्पादकीये लेखे, आधुनिके जगति संगणकयन्त्रे संस्कृतभाषाव्याकरणस्योपयोगः संगणकयन्त्रस्य महत्त्वमित्यादिविषयानधिकृत्य सदृष्टान्तं ससन्दर्भ च सुष्ठ निरूपणं कृतमस्ति । अतो ये संगणकथन्त्रज्ञास्तेषां कृतेऽयं ग्रन्थोऽतीवपयोगी भवेत्, ये च संगणकथन्त्रानभिज्ञास्तेषां कृतेऽपि पारम्परिकपद्धत्याऽस्य मुद्रणमुपयोगि भवेदेव । ग्रन्थान्ते संस्कृतशब्दसूचिगुर्जरशब्दसूचिश्च मुद्रिते स्तः । ग्रन्थोऽयं गूर्जरभाषाभिज्ञानां संस्कृतभाषाभ्यासकृतेऽतीवोपकारकोऽस्तीत्यत्र नास्ति सन्देहः । एतादृशस्य ग्रन्थरत्नस्य सम्पादनार्थ पुनःप्रकाशनार्थं च सम्पादक-प्रकाशकमहोदययोर्भूयांसो धन्यवादाः । ९७, जलदर्शन सोसायटी, मालपुर रोड, मोडासा( गूजरात) ३८३३५५
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy