________________
तव प्रिया परनिन्दा यावत्ते प्रशंसा प्रिया । तावत् त्वं निन्दनीयोऽसि कल्याणं न भविष्यति ॥ यावत् प्रियः स्वसम्मानः परापमानश्च प्रियः । तावत्त्वमस्मिल्लोके ह्यपमानितो भविष्यति ॥ यावत्ते सुखस्य वाञ्छा कामनाऽन्यदुःखस्य च । तावत्त्वं सर्वदा दुःखं प्राप्स्यस्यत्र निरन्तरम् ॥ यावत्त्वं प्रदाने दुःखं जानासि ग्रहणे सुखम् । तावत् तुभ्यमत्र लोके कोऽपि वस्तु न दास्यति ॥' (सं. ३६१-३६४, ३६६)
सम्प्रदायनिरपेक्षे कवितासंग्रहेऽस्मिन् समाजोपयोगिषु सर्वेषु विषयेषु कविना स्वविचाराः संप्रस्तुताः । यस्मिन् कर्मणि समाजस्य राष्ट्रस्य सकललोकस्य च कल्याणं स्यात्, तेषां प्रशस्तिरत्र नितरामृजुतया प्रस्तूयते । कुत्राऽपि भावाभिव्यक्तौ नास्ति गूढता, न च शब्दानां प्रयोगे क्लिष्टता दुरूहता वा। ये संस्कृतभाषायाः दुरूहत्वं मन्यन्ते, तेषां कृते कृतिरियं नितरामुपयोगिनी । ते रचनामिमामधीत्य संस्कृतस्य सारल्यमनुभवितुं शक्नुवन्ति । रचनेयं संस्कृतानुरागिभिः संग्रहणीया पठनीया च । जयति संस्कृतं संस्कृतिश्च ।
मनी का पूरा,
चांदपुर, सोरामः, प्रयागः २१२५०२ (उ.प्र.)