SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आस्वादः जीवनमौक्तिकम् मुनिरम्याङ्गरत्नविजयः (१) हिंसया दूयते इति हिन्दुः 'वयं हिन्दवस्स्मः' इति संवित्कारका वयं 'हिन्दु'पदस्य अर्थं किं सम्यगवबुध्यामः ? पौराणिकशास्त्रे,'स्मृतौ' 'हिन्दु'शब्दस्य समाख्यानमेवं विवृतम् - -- यथा - 'हिंसया दूयते इति हिन्दुः' । हिंसया यो जनः संसीदति, स 'हिन्दु'अभिख्यया अभिधातव्यः । यो वस्तुतो वाच्यत्वेन हिन्दुः स काञ्चिदपि प्राणिहिंसां न कुर्यात् । अनभिज्ञतया कथञ्चित्तेन हननक्रियासंभवेऽपि दयार्द्रतया तस्य चित्तं विषण्णायेत । कदाचिच्चाऽन्यजीवं हिंसन्तं परव्यक्तिं दृष्ट्वा 'हिन्दु' जनस्य हृदयमतीव दूयेताऽपि । यत्किञ्चिदेतत् - कस्मिंश्चिदपि देशे स सञ्जायेत । यदि प्राणव्यपरोपणात्मिका हिंसा तेन संत्यक्ता, अहिंसाकरुणे च द्वे आत्मकवचे संरक्षिते, तदाऽयं 'हिन्दु'स्वरूपख्यापकग्रन्थनिर्देशानुसारं यथार्थतया हिन्दुत्वेन व्यपदेशपात्रम् । एतादृशां हिन्दूनां जनपद एव 'हिन्दुस्थान'रूपेण ख्यातः । (२) नाऽतत्त्ववेदिवादः सम्यग्वादः - तत्त्वज्ञानविषयणीं वार्ता चर्चयितुमस्माकं यदि समीहा तदा तत्त्वविदो भवेम । तत्त्वज्ञानमन्तरेण वयं तत्त्वविषयकवादविवादौ न कर्तुमर्हाः । अतः प्रतिसमयं तत्त्वख्यातिसंप्राप्त्यर्थमायतामहै । ये यथार्थतया तत्त्वविदस्तदन्तिके विनयावनतिपुरस्सरमुपविश्य तत्त्वसंज्ञानं संपद्यामहै। इत्थं ये महापुरुषाः प्रत्यक्षज्ञानिनः सर्वज्ञा वीतरागाश्च स्युः, तेषां महापुरुषाणां वादः सम्यग्वादः, तदनुसारिणां चाऽपि सद्वाद एव । तथा च - अत्र प्रयत्नप्रज्ञोभयशालिसज्जनः प्रायोगिकतत्त्ववेदित्वेन विना पूर्वग्रहं सर्वज्ञ-तत्त्ववेदि-महापुरुषैर्दर्शितं तत्त्वज्ञानं प्राप्तुमाघटते । ततो वयं तत्त्ववेदिभवनानन्तरं तत्त्ववार्ता विस्तीर्य अन्यान् प्रति तां प्रवितरामः । (३) ज्वलदग्निसमं जगत् दन्दह्यमानदारुणदावानलसमोऽयं संसारः, अनाद्यनन्तस्वरूपः । तमुपशमयितुं जगति न कोऽपि प्रत्यलम् । अचिन्त्यानुपमवीर्यवान् ईशोऽपि तत्प्रशमनाय न यतते । बाढमस्मात् संसारात् निर्गन्तुमनसो जीवान्
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy