SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ समुद्धृत्य अपुनरागमनाय सत्पथः तेन प्ररूपितः, निर्गतजीवानां च योगक्षेममपि कृतम् । किन्त्वत्र विषये अस्माकं किं कर्तव्यम् ? अस्मदीयान्तर्मनसि तादृशी वेदना सञ्जायेत, यज्ज्वलदग्निसमे जगति कथमस्माभिः स्थातव्यम् ? (8) अर्ह" इत्येतदक्षरं ब्रह्म " अहम् " - जगदान्ध्यकृतोऽस्य द्विविधाऽवस्थितिः । एका तावत् स्वयं (= आत्मा) पराभूय विनम्रतायां विलीनो भवेत्, द्वितीया च पराभवनानन्तरमपि निश्चलतया स्थाणुरिव निष्प्रकम्पो भवेत् । प्रथमपक्षे नाऽत्र विचारणा आवश्यकी, अपरपक्षे तु करणीया - यत्परा भवनानन्तरमपि यदि युष्मद्विवेकदृष्टिरनावृता तर्हि 'अहं' पदं ‘अर्हम्’इत्येतदाराधनाया धारायां संवहेत् । तदा चैतद् " अर्हं " पदं परमब्रह्माक्षररूपेण परिणमेत् आत्ममलविशुद्धिकरणात् । अस्य अन्यथाक्रमे तु - यदवधीरणानन्तरमपि आन्तरचक्षुरपरनाम विवेकदृष्टिर्नोन्मीलिता तदाऽसौ 'अहं' जीवं संतप्य भवचक्रे परिभ्रामयेत् । अनुसंधत्त अन्तःकरणे । शोधनं कुरुत मनसः । द्विविधस्वरूपेऽस्मिन् कीदृशे बन्धने आबद्धा स्मः । तस्मात् पाशनिवृत्त्यै परमेश्वररूपप्राप्त्यर्थं च "अर्हम्" इति मन्त्रमनुस्मरेम । तत्रैव अस्मद्मनो निदध्याम । येन दैवोपहतोऽसौ 'अहं' कान्दिशीकतया पलायेत । 44 १५
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy