________________
भूत्वा परानन्दप्रपूर्णरोचिः पित्रोः परानन्दकरो बभूव । विद्याकलानीतिविशारदश्च तस्मै महावीर ! नमो नमस्ते ॥६॥
इन्द्रादिदेवानतपादपीठो,
दिव्यां स्वलक्ष्मीमणिमादियुक्ताम् । रत्या अपि श्रेष्ठरुचि स्वराज्ञस्तत्याज तं वीरमहं नमामि ||७||
इदं जगद् देवभवादिवैभवं विनाशि विज्ञाय विरक्तिमाप्तवान् । स्वयं च बोधात् परिगृह्य दीक्षणं विज्ञानरूपत्वगताय ते नमः ||८||
तप:क्षमासत्यदयाप्रपूर्णो । ज्ञानेन कष्टानि विजित्य धीरः । कामादिदोषान् परिदह्य तूर्णं ज्ञानाग्निना केवलिने नमोऽस्तु ||९||
तीर्थङ्कराख्यां पदवीमवाप्य,
भव्यान् जनांस्तारयितुं प्रयेते । ज्ञानोपदेशेन परोपकारी
मुक्तिप्रदो वीर ! नमामि तं त्वाम् ॥१०॥
॥ इति श्रीमहावीरस्तुतिः समाप्ता ॥ ( केनचिदज्ञातलेखकेन रचिता)
४