________________
सकललब्धिनिधान-श्रीगौतमस्वाम्यष्टकम्
-आ.विजयहेमचन्द्रसूरिः
(ललित-वृत्तम्) महिमशालिनं विश्वतारकं, गुणगणालयं गीतगौरवम् । सकललब्धिभृद्योगिनं स्तुवे, गणधरोत्तमं गौतमप्रभुम् ॥१॥ चरमतीर्थकृत्पट्टभास्करो, मुनिततीडितः कामितप्रदः । सुरवरैर्नुतस्तेजसान्निधि-विजयतेतरां गौतमेश्वरः ॥२॥ चरितमद्भुतं ते दयानिधे ! जडमतिः कथं स्तोतुमुत्सहे । तव कराम्बुजाद् दीक्षिताः समे, मुनिवरा ययुर्मुक्तिमन्दिरम् ॥३।। भविकतायिनं मुक्तिदायिनं, कुमतनाशिनं तत्त्वपायिनम् । पतितपावनं भाविराजितं, प्रणिदधेऽन्वहं गौतमेश्वरम् ॥४॥ गणभृदग्रणी: श्रेयसां पदं, हितकरो नृणां पापनाशकः । विमलदर्शनः कर्मजित्वरो, विजयतेतरां गौतमेश्वरः ॥५॥ नमनतस्त्वयि श्रीगणाधिप ! सकलकल्मषं नश्यति ध्रुवम् । पवितनाम ते यत्र राजते, भवति तत्र नो विघ्नकल्पना ॥६॥ गिरिवरे गतोऽष्टापदे भवान्, भगवतोऽचितुं स्वीयशक्तितः । अतुलसारवन् ! नाथ ! ते गुणान्, गणयितुं क्षितौ केन पार्यते ॥७॥ तव पदाम्बुजे वन्दना सदा, भवतु मे प्रभो ! योगिसत्तम ! । तव प्रभावती मंगलावलि-र्मम दिने दिने देव ! जायताम् ॥८॥ अष्टकं गौतमेशस्य, सर्वसिद्धिप्रदायकम् । रचितं हेमचन्द्रेण, गुरुदेवांघ्रिसेविना ।।९।।