________________
यद्वन्दनं यच्छ्रवणं च दिव्यं, सद्यो भवेत् पापविनाशहेतुः । बहवोऽपि भव्या
ध्यात्वा हृदा
गतिं परां प्रापुरनुत्तरां च ॥५॥
जिनेन्द्रधर्मं जगति प्रसार्य
यतिस्वरूपेण विशुद्धभावः ।
भोगाद् विरक्तिं परमामवाप्य
सिद्धाचलेऽस्मिन् निषसाद देवः ||६||
स्वजन्मना सच्चरणाद् विरागात्
तप:प्रभावाच्च जिनेश्वरोऽभूत् ।
श्रीवीतरागामलधर्ममाख्यात्
स्वभक्तकल्याणकरो बभूव ॥७॥
एवंप्रभावं वृषभं जिनेशं
विहाय देवं समुपासतेऽन्यम् । ते मृत्युलोके भुवि भारभूता
भवन्ति दारिद्र्ययुता युगेषु ॥८॥ देवस्य वृषभस्येदं स्तोत्रं योऽहर्निशं पठेत् । न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥९॥
॥ इति श्रीमद्ऋषभदेवजिनेश्वरस्तोत्रं समाप्तम् ॥ ( केनचिदज्ञातलेखकेन रचितम्)
२