________________
श्रीमद्ऋषभदेवजिनेश्वरस्तोत्रम्
यो नाभिसूनुर्जित-षट्सपत्नः
स्वजन्मनोपार्जितदिव्यसिद्धिः । भूत्वोदराच्छ्रीमरुदेविकाया
श्चकार दिव्यां स्वकुलोन्नतिं च ॥१॥ यज्जन्मनेन्द्रादिक-सर्वदेवाः
कोऽयं किमर्थं कुलशेखरोऽभूत् । यत्तेजसाऽऽदित्यमुखा हताभा
भवन्ति तस्माद् वृषभं चकार ।।२।। सुमङ्गलाख्यां प्रमदां मनोज्ञां
यः पर्यणैषीत् स्वकुलाभिवृद्ध्यै ।। तस्यां सुपुत्रो भरतोऽजनिष्ट
स्वराज्यलक्ष्म्या विरतो बभूव ॥३॥ साम्राज्यलक्ष्मी परिहाय तूर्णं
वनं गतो धर्ममुपेयिवान् यः । विनश्वरं लोकमिमं विदित्वा
स्वस्मिन् रतो दिव्यसुखान्यवाप ॥४॥