________________
कथा
गुरोर्वचनम्
सा. श्रीधृतियशाश्रीः
द्वितीये विश्वयुद्धे ब्रिटन्-जापान्देशयोर्मध्ये युद्धं प्रचलति स्म । ब्रिटिशसेनायां बहवो भारतीयसैनिका आसन् । एकदा ब्रिटिशदलं पराजितम् । जापानीयैस्तदीया बहवः सैनिका युद्धबन्दित्वेनाऽध्रियन्त । कोऽपि देशो युद्धबन्दिभिः सह सम्यग् न व्यवहरतीति तु प्रसिद्धमेव । जापानीयैरपि ते युद्धबन्दिनो भृशं पीडिताः ।
___ अथो भोजनवेलायां ते सर्वेऽपि बन्दिनो मिलित्वा स्वस्वानुभवं वर्णयन्ति स्म । तदैको बन्दी कथितवान् - 'ह्यः कञ्चिद् बन्दिनं ते पृच्छार्थं नीतवन्तः । तत्र च तं तथा ताडितवन्तो यथा सोऽम्रियत ।' एतच्च कथनं द्वाभ्यां बन्दिभ्यां श्रुतम् । तयोरेकस्तु श्रवणमात्रेणैव भीतोऽभवत्, भोजन-शयनादिषु चाऽनास्थावान् जातः । अन्यस्तु स्वस्थ: सन् नियततयैव भोजन-शयनादिषु व्यापृतः ।। - भोजनान्तरं तत्रत्यो नियामक एतौ द्वौ कथितवान् – 'श्वः प्रातर्युवयोरपि पृच्छा भविष्यति ।' भीतो बन्दी एतच्छ्रुत्वाऽधिकमबिभ्यत् । विह्वलमानसः स सर्वमपि नित्यकृत्यं विस्मृत्य चिन्ताव्याकुलो जातो यत् - श्वः किं भविष्यतीति' । अन्यस्तु न किमपि जातमिव व्यवहारन् स्वस्थतयैव नित्यचर्यायां प्रसक्तः । तदा भीतो बन्दी तं पृष्टवान् - 'किं भवतः किमपि भयं नास्ति वा ?' स उक्तवान् - 'मम गुरुर्मा बोधितवान् यत् - "वर्तमानक्षण एव सत्योऽस्ति, भविष्यत्-कालः सत्यो नास्ति । स हि भ्रमरूप: ।" अहं तु तदेव प्रमाणीकृत्य जीवामि । अतो मम किमपि भयं नास्ति ।'
एतच्छ्रवणेऽपि भीतस्य बन्दिनो भयं नाऽपगमत् । ततश्च तस्यामेव रात्रौ भयव्याकुलतया स हृदयाघातं प्राप्य मृतः । द्वितीयदिने प्रातरेव घोषणा जाता यत् - पराजयं प्राप्तो जापानदेशः शरणागति याचितवानस्ति इति । ततश्च सर्वेऽपि युद्धबन्दिनो मुक्ता अभवन् ।
[बोधः गुरोवर्चनं सदा सुखदायि भवति । यावज्जीवेत् तावत् स्वस्थतया जीवेत् । भविष्यत्काले सुखप्राप्त्यर्थं चाऽपि वर्तमानक्षण एव सफलीकर्तव्यः ।]
*
*
*