SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सञ्जातः । कीदृशमेषामद्भुतं ज्ञानम् ? इति चिन्तने च निमग्नोऽभवत् ।। मध्यरात्रिपर्यन्तं शास्त्रचर्चाऽविक्षिप्ता जाता । पश्चादागन्तुकसन्न्यासिना वृद्ध आश्रमगुरुः पृष्ट: - "भोः ! मम वार्ता कीदृशी अनुभूता भवद्भिः ?" स वृद्धगुरुः साश्चर्यमुक्तवान् - "कीदृशी तव वार्ता ? त्वं वार्ता करोति स्म । परं तस्यां वार्तायां 'तव वार्ता' तु आसीदेव न । मया त्वत्यवधानतः श्रूयते स्म यत् त्वयाऽपि किञ्चिदुच्येत । परं, त्वं तु किञ्चिदपि न प्रोक्तवान् ।" आगन्तुक उक्तवान् - "किमुच्यते भवद्भिः ? अधुना यावन्मया नोक्तम्, तर्हि केनोक्तम् ?" आश्रमगुरुः प्रत्युक्तवान् - "भोः ! अशोभनं मा चिन्तय । परं, वस्तुतः अधुना यावत् त्वं न, किन्तु त्वया पठितानि पुस्तकानि वदन्ति स्म । एकः शब्दोऽपि त्वया नोक्तः । त्वया यज्ज्ञानं सञ्चितमस्ति, तस्य त्वं वमनं करोति स्म । तव वमनं दृष्ट्वा अहमतिभीतवान् - 'त्वमतिरुग्णोऽस्ती'ति चिन्तया । ज्ञानस्य परिमलस्तस्मिन् वक्तव्ये नाऽनुभूतः । परं, वमनस्य मालिन्यं नूनमनुभूतम् । अतस्तव वचनं किञ्चिदपि नाऽऽसीत् ।" आश्रमगुरोर्मार्मिकं यष्टिप्रहारमिव वचनं श्रुत्वा प्रशंसालिप्सुः स आगन्तुकः सन्न्यासी निःशब्द: स्तब्धलोचनश्चैव जातः । आदावागतेन यूना सन्न्यासिनाऽपीदं सर्वं श्रुतम् । आश्रमगुरुं प्रति तस्याऽरुचिरिदानी तिरोभावं प्राप्तवती । स स्वस्य विहारनिर्णये परिवर्तनं कृतवान् । अद्य प्रथमतयैव तेन ज्ञातम् - 'ज्ञाने ज्ञानेऽप्यन्तरं भवति । एकं ज्ञानं तदस्ति यदस्माभिः सञ्चितमस्ति । द्वितीयं च ज्ञानं तदस्ति यदन्तःकरणादुदेति' इति । तयोर्द्वितीयमेव ज्ञानमस्ति तात्त्विकम् । * * *
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy