SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ "तथाऽपि आवाभ्यां प्रयासः कर्तव्य एवाऽस्ति", द्वितीयो दर्दुरोऽवदत् - "कदाचित् प्रयासेन जीवनमपि प्राप्येत ।" ___ "व्यर्थप्रयत्नेन को लाभः ?" - प्रथम उक्तवान् । “तरणाय पदार्थोऽयमतिघट्टो ज्ञायते, कूर्दनाय पदार्थोऽयं प्रतनुरस्ति, आरोहणाय चाऽयं पदार्थोऽतितैलमयोऽस्ति । अतोऽस्माकं रक्षा नास्ति शक्या । ततो व्यर्थप्रयत्नं कथं कुर्याव ?" इदमुक्त्वा स दर्दुरो रक्षाप्रयत्नं त्यक्तवान् । अतः स दुग्धे मङ्क्त्वा मृत्युमाप्तवान् । परं, द्वितीयो दर्दुरः स्वरक्षाप्रयत्नमविरामेण कृतवान् । पादांश्चालयित्वा चालयित्वा स क्लान्तोऽभवत् । किन्तु तस्य सम्भ्रमणेन प्रातर्यावत् दुग्धसाराद् घट्टितं नवनीतं वियुक्तं जातम् । तस्योपरि स दर्दुर उपविष्टवान् । पश्चात् कतिपयक्षणान्तरं दुग्धालयस्य कार्यकरेण दृष्टः स बहिनिष्कासितो रक्षितोऽभवत् । अस्माकं जीवनेऽपि यदि विघ्ना आपतिता भवेयुस्तहि धैर्यं न त्यक्तव्यम्, यतो यदि धैर्यं भविष्यति तर्हि आपतिता विघ्ना अपि नष्टा भविष्यन्तीति कथासारः । (३) परमं प्रेमरूपम् कस्यचिज्जनस्य पुत्रः क्रिकेटक्रीडां प्रति अत्याकृष्ट आसीत् । परमयं जनः क्रिकेटक्रीडां प्रति नितरां पराङ्मुख आसीत् । तथाऽपि केषुचिद् विश्रामदिनेषु सपुत्रः स विशेषतः काञ्चित् क्रिकेटक्रीडां द्रष्टुं गतवान् । अन्यस्मिन्नगरे सा क्रिकेटक्रीडास्पर्धा आयोजिताऽऽसीत् । सप्तदिनानि यावत् तेन क्रिकेटस्पर्धा दृष्टा । धनव्ययोऽपि बहुः सञ्जातः । तथाऽपि स सानन्दो दृश्यते स्म । अत: केनचिद् मित्रेण स जनः पृष्टः - "भोः ! तुभ्यं क्रिकेटक्रीडा नूनं रोचते ? क्रिकेटक्रीडायाः कृते त्वया कियद् धनं दत्तम् ? कियान् समयव्ययश्च कृतः ?" तेन जनेन सान्तःकरणं प्रत्युक्तम् - "भोः ! मह्यं क्रिकेटक्रीडा मनागपि न रोचते । परं, मम पुत्रस्तु मह्यं बहू रोचते ।" इदं श्रुत्वा 'अहो ! कीदृशं प्रेमरूपम् ?' इति चिन्तने मग्नोऽभवत् स सहचरः । प्रेम्णाऽप्रियमपि सर्वं क्रियते । अतोऽस्माभिरपि अस्माकं चित्तं नित्यं प्रेमपूर्णं कर्तव्यम् । अस्माकञ्च नेत्रे नित्यं प्रीतिस्निग्धे कर्तव्ये । तेन जीवनमानन्दमयं भविष्यति नूनमिति तात्पर्यम् । (४) तात्त्विकं ज्ञानम् ___एको युवा सन्न्यासी सद्गुरोः सान्निध्यप्राप्त्यै ग्रामस्य निकटस्थं कञ्चिदाश्रममागतः । द्वित्राणि दिनानि व्यतीतानि । अत्रान्तरे तेन यूना सन्न्यासिनाऽनुभूतम् - 'अत्रस्थो वृद्ध आश्रमगुरुः किञ्चिदपि तत्त्वं न जानाति' इति । 'अतो मया कस्यचिदन्यगुरोः पार्वे गन्तव्यमिति तेन चिन्तितम् । परं यस्मिन् दिने तस्य विहार आसीत्, तस्मिन् दिनेऽन्य एकः सन्न्यासी आश्रमस्याऽतिथिरभवत् । रात्र्यामाश्रमगुरोनिश्रायामन्तेवासिनः सम्मिलिताः । तत्राऽऽगन्तुकसन्न्यासिना शास्त्रज्ञानस्याऽतिसूक्ष्मा गभीरा च वार्ता कृता । अतो यूना सन्यासिना चिन्तितम् - गुरुणा त्वेतादृशेनैव भवितव्यम् । स मन्त्रमुग्धः
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy