________________
कथा
मोहरहितस्सत्पुरुषः
सा. श्रीसंवेगरसा श्रीः
एकदा देहुग्रामे पञ्चदशाऽश्ववाराः समागच्छन् । तेष्वेकोऽश्ववारो कमपि जनमपृच्छत्, किमस्माकं भवान् सत्तुकारामस्य गृहं नेष्यति ? ओम् ! इत्युक्त्वा स जनश्शीघ्रमुत्थाय निजस्कन्धस्योपरि कम्बलं च धृत्वा सर्वाणामश्ववाराणामग्रेऽचलत् । सर्वे ग्रामजना अपि पथ उपरि चलत एतान् सर्वान् दृष्ट्वा विस्मिता जाता: । तेषु पञ्चानामश्वाणामुपरि तु नाना प्रकाराण्यलङ्काराणि स्थापितान्यासन् । ते सर्वेऽप्यश्ववाराः स्तोकवेलायामेव सत्तुकारामस्य गृहाग्रमागत्याऽतिष्ठन् ।
जनानां नादं श्रुत्वा तुकारामो गृहाद् बहिरागतवान् । तदा महाराष्ट्रनायकंस्तुकारामस्य समीपमागच्छत् । यावच्च स सत्पुरुषस्य चरणयो: स्प्रष्टुं गच्छति स्म, तावत् सत्पुरुषो मनागनुवर्त्य अवदत् - हे बन्धो ! यथा ममाऽन्तरे विठोबा वसति, तथैव तवाऽन्तरेऽपि वसति । तत आवां तु परस्परं वन्दनीयौ स्तः । ततो नम्रस्तुकारामः सर्वेभ्यो नमस्करोति । आदरपूर्वकं च तान् गृहमानयति । सर्वे जना अपि तस्य गृहमागत्योपाविशन् । ततो नायकस्सत्पुरुषायाऽकथयत्, हे महात्मन् ! शिवाज्या भवत्कृते इदं पत्रं प्रेषितमस्ति । तथा अस्माभिस्सह भवान् पूनानगरमागन्तुं विज्ञप्तोऽस्ति । पत्रेण सहेदं तुच्छं प्राभृतमपि दत्तमस्ति । ततो भवानस्माकमुपरि अनुग्रहं कृत्वा तदुपहारं गृह्णातु । तस्य कृते प्रेषितं प्राभृतं दृष्ट्वा सत्पुरुष ईषदहसीत् उक्तवांश्च - मत्कृते इमाः सर्वाः सामग्रयो बन्धनरूपा सन्ति । अमीषामश्वाणामपि मम काऽपि आवश्यकता नाऽस्ति । यतो मया यत्र यत्र गन्तव्यं, तत्र तत्र अहं पादाभ्यां गन्तुं समर्थोऽस्मि । एतत् सर्वं तु मम भक्त्यां विक्षेपकारकमस्ति । सामान्यजनो यशःकीर्तिमानादिषु मनुष्यजीवनं व्यर्थं कुर्वन्ति । मत्कृते तु विठ्ठलस्य नाम विना त्रिषु लोकेषु अन्यत् किमपि महत्त्वयुतं नाऽस्ति । विठ्ठलस्याऽभिधानस्य समीपे इदं सर्वं तुच्छमेव अस्ति । तस्येदृशानि मधुराणि वचनानि श्रुत्वा स नायकोऽपि अवदत्, हे सत्पुरुष ! यदि वयं तत्रभवन्तं विना गच्छेम तदाऽस्माकं महाराजो भवन्तमपश्यन् अस्मान् भर्त्सयेत् । ततो भवानस्माकमुपरि कृपां करोतु ।
ततस्सत्पुरुषः शिवाज्या उपरि पत्रमलिखत् । तस्मिन् पत्रे एवमलिखच्च, अहं ममोटजं महाप्रासादेन तुल्यं मन्ये । अहञ्च अहोरात्रं विठ्ठलस्य नाम्नाऽऽनन्देनाऽत्र वसामि । भवन्तः सर्वेऽपि प्रत्येकं श्वासोच्छ्वासेषु विठ्ठलस्य नाम गृहणन्तु । एतावदेव मह्यं ददतु । तर्हि मे त्रिभुवनस्य राज्यं प्राप्तमित्येवमहं मंस्ये ।
पत्रं गृहीत्वा ते सर्वेऽपि अश्ववाराः शिवाज्याः समीपं गताः । ममत्वरहितस्य सत्पुरुषस्य तत्पत्रं पठित्वा शिवाज्याः नेत्रयोरपि अश्रूणि आगतानि । ततो यत्र देहुग्राम आसीत्, शिवाजी तद्दिशि गत्वा भक्त्या अञ्जलिं च कृत्वा तं सत्पुरुषमवन्दत ।
८२