________________
वत्सरेभ्यः कियद्भ्योऽसा - वस्ति वाणिज्यमाचरन् । नृपोऽपि श्रेष्ठिनन्तञ्चाऽऽनेतुं कमपि प्राहिणोत् ||४६७|| तदूताकारणावाक्यं श्रुत्वा श्रेष्ठी त्वरान्वितः । समागत्य नृपं बन्धु - सहितं प्रणनाम च ॥ ४६८।। पर्यपृच्छन्नरेन्द्रस्तं, श्रेष्ठिन् ! त्वं मामवेहि किम् ? | नम्राननोऽवदत् श्रेष्ठी, हृदि संकोचमावहन् ||४६९॥ भवन्तं पृथिवीनाथं, को न जानाति साम्प्रतम् ? | नरेन्द्रोऽवङ् नैवमस्ति, किन्तु पृच्छाम्यहं खलु ॥४७०॥ सम्बन्धित्वेन तदा स्माह, जिनदासो महाशयः । सत्यं सबन्धुं राजानं, पुत्रत्वेनाऽभ्यलक्षयत् ॥ ४७१|| (युग्मम्) किन्त्वसौ कथमित्थं द्राक्, कथयेत् त्वं सुतोऽसि मे । ततः श्रेष्ठी समौनेन, तस्थौ नृपतिसन्निधौ ॥४७२॥ तदा सबन्धू राजाऽसौ, सिंहासनात् समुत्थितः । तत्पादपुण्डरीकेऽथ, चञ्चरीकोऽवदन्मुदा ||४७३|| ताताऽस्माकमियान् काल - स्तवाऽऽस्येक्षणवर्जितः । विनाऽस्मज्जननीपाद- पद्मवन्दनतोऽपि च ॥४७४||
अद्याऽस्माकं दिनं तात !, सफलं जायतेतराम् । यत्पितृचरणाम्भोज-साक्षात्कारो ह्यजायत ||४७५|| माता जिनमती श्रुत्वा, वृत्तान्तं लोकतस्ततः । स्नेहामृतरसास्वाद - प्रसादितमनाः द्रुतम् ||४७६॥
गृहान्निर्गत्य तत्राऽऽगाद् हर्षाश्रुभृतलोचना । सहसैतां निजाम्बां तौ, निरीक्ष्य द्वावपि द्रुतम् ॥४७७||
धावित्वा नेमतुर्मातृ-पादाब्जे भक्तिभृद्दौ । न त्यजन्ति विवेकं हि सन्तः सारधियः शुकाः ||४७८||
माताऽप्यतिप्रमोदेन, निःस्रवत्स्तनमण्डला । नयनद्वयतोऽश्रूणि मुञ्चन्ती प्रेक्षते तकौ ॥४७९ ॥
७३