________________
निरवासयदाश्वेव, स्वबन्धुपरितापकम् । निकटं कण्टकं नैव, रक्षन्ति सुखकाङ्क्षिणः ॥४५४॥
नृपः स्वबन्धुना युक्तः, शीलवत्या तया मुदा । गजेन्द्रस्कन्धमारुह्य, निजमन्दिरमागमत् ॥४५५॥ स्वबन्धोः शीलवत्याश्च राजाऽष्टाह्निकमुत्सवम् । जिनेन्द्रचैत्ये संहृष्टः, कारयामास भक्तितः ॥४५६॥ एवमानन्दसन्दोहाद्, व्यतीयुर्वासराः सुखम् । विधिज्ञानां न चित्राय, सुख-दुःखपरम्परा ॥ ४५७॥ एकमेवाऽभवद् दुःखं, दुःसहं सहजन्मनोः । यन्मातुर्जनकस्याऽपि, चिराय विरहोऽभवत् ॥ ४५८॥
सबन्धुर्नरनाथः स्व-पित्रोस्तु मिलनोत्सुकः । प्राप्तैकस्मिन् सुखेऽन्यत् तद्, वाञ्छ्यते हीदृशो नरः ॥ ४५९ ||
प्रधानानीकिनीनाथ-मुक्त्वा करि-तुरङ्गमैः । राज्यरक्षार्थमादिशन् - मन्त्रिसेनापतींस्तथा ॥ ४६० ॥
पदाति-रथमुख्यैश्च, प्रबलैः सैनिकैर्युतः । निर्ययौ स्वीयभवना - दुत्को विजययात्रा ||४६१ ॥ साम-दान-भेद-दण्डैः, पथिस्थान् नृपपुङ्गवान् । वशीकुर्वन् क्रमेणाऽऽशु, ठक्कुरग्राममागमत् ॥४६२॥ यद्ग्रामे माता- पितरा-वास्तां तद्ग्रामतो बहिः । क्वचिद् भूमिस्थले तूर्णं, स्कन्धावारमतिष्ठिपत् ॥ ४६३||
ठक्कुरोऽपि महाराजागमनाद् भयान्वितः । तत्राऽऽगत्य ननामैवं, सभ्रातृकं नरेश्वरम् ||४६४||
सुबहूपायनं दत्त्वा तदाज्ञां शिरसाऽवहत् । कथाविनोदैर्नृपति-जिनदत्तोऽन्वयुक्त तम् ॥४६५॥
त्वदीयनगरे कोऽपि वणिगस्त्यथवा नहि । सोऽवगस्ति मम ग्रामे, जिनदासाभिधो वणिक् ॥४६६ ||
७२