SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ छत्रचामरभूषाद्यै-रलञ्चकुर्महागजम् । स गजेन्द्रो भ्रमंस्तत्र, नगरे क्रमतो बहिः ॥३५०|| नगरानिःसृतः प्राप-दुद्यानं सान्द्रवृक्षकम् । तत्र वृक्षतले सुप्तं, जिनदत्तमुपेयिवान् ॥३५१॥ कुञ्जरेन्द्रोऽभ्यषिञ्चत्तं, स्वयं छत्रमदीधरत् । चामरे स्वयमेवैते, वीजयामासतुस्तराम् ॥३५२॥ गृहीत्वा स्वकरेणाऽमुं, स्वपृष्ठोपर्यतितिष्ठिपत् । ततो मन्त्रिमुखाः पौर - जना नवनरेश्वरम् ॥३५३।। अमन्दानन्दसन्दोह-सङ्घलास्तं ववन्दिरे । प्रावेशयंश्च नगरं, महामहपुरस्सरम् ॥३५४॥ राज्याभिषेकसामग्या-ऽभ्यषिञ्चन् राजसंसदि । एवं राज्यप्रदौषध्याः, प्रभावेण स तत्पुरे ॥३५५।। महाराजोऽभवद् दैवे-ऽनुकूले स्यात् शुभोदयः । ततः स्वं बन्धुमन्वेष्टुं, चारान् सर्वत्र प्राहिणोत् ॥३५६।। जिनदत्तः नृपः किन्तु, तद् वृत्तं नैव लब्धवान् । सदैव बन्धुविरहा- नलसन्तप्तमानसः ॥३५७।। निनाय स दिनान्येवं, राज्यमाप्तोऽपि दुःखभाक् । सम्पद्यपि न सौख्यं स्यात्, प्रतिकूलेषु कर्मसु ॥३५८।। इतश्च कृपणश्रेष्ठि-गेहे विविधताडनम् । सहमानोऽतिकष्टेनाऽनयद्वारान् कथञ्चन ॥३५९।। श्रेष्ठिनस्तस्य कुष्ठ्येको, जन्मतो रोग्यभूत् सुतः । लोके प्राख्यापयन्मेऽस्ति, पुत्रोऽतीव मनोहरः ॥३६०॥ तस्योपरि न कस्याऽपि, दृष्टिदोषो लगेदतः । इत्यसत्येन वचसा, सर्वे तेन प्रतारिताः ॥३६१।। स्थापितोऽस्ति मया बालः, स मे भूमिगृहान्तरे । तस्य रूपकथां श्रुत्वा, सर्वे मुमुदिरे जनाः ॥३६२।।
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy