________________
परोपकारतोऽस्माकं, जीवितं स्यात्फलान्वितम् । इत्यालोच्याऽऽशु तैः सोऽहिविषमुक्तो व्यधीयत ॥३३७।। जिनदत्तः क्षणेनाऽसौ, जजागार प्रसुप्तवत् । ततो गारुडिकान् स्वीय-समीपस्थानिरैक्षत ॥३३८।। निजबन्धुमदृष्ट्वा सो-ऽपृच्छत्तांस्तदा द्रुतम् । मम बन्धुरगात्कुत्रै- तच्छ्रुत्वा ते न्यवेदयन् ॥३३९।। वयमत्राऽधुनाऽऽयाता, बद्धं वस्त्रेण शाखिनि । सर्पदष्टं विलोक्य त्वां, मन्त्रेण गारुडेन हि ॥३४०।। अकाद्म निर्विषं किन्तु, न तेऽपश्याम सोदरम् । तच्छ्रुत्वा जिनदत्तोऽसौ, चिन्तयामास चेतसि ॥३४१।। (युग्मम्) नूनं मे बन्धुरालोक्य, मां दष्टं फणिना तरोः । शाखायां वाससा बवा, कुत्राऽपि वजितो भवेत् ॥३४२॥ तं कुत्राऽन्वेषयामीति, दुःखितं प्रेक्ष्य चिन्तया । गारुडिकास्तमपृच्छन्, किं त्वया चिन्त्यतेऽधुना ? ॥३४३।। इति तैः पृष्ट आख्यात् स, वृतान्तं सकलं स्वकम् । महाशया ! न युष्माकं, क्षमः प्रत्युपकर्मणि ॥३४४॥ तदा किं करवाणीति, श्रुत्वा ते तं बभाषिरे । अस्माकं नास्ति वाऽपीहो-पकारो यः कृतस्तव ॥३४५।। भवान्तरे स्तात् क्षेमाये-त्युक्त्वा गारुडिका अपि ।। स्वाभीष्टपथमाश्रित्य, ततः प्रास्थुः कृतार्थकाः ॥३४६।। इतश्च जिनदत्तः स, स्वबन्धुं मार्गितुं परः । बभ्रामेतस्ततः क्वाऽपि, बन्धोः शुद्धिं न लेभिवान् ॥३४७।। सप्तमे दिवसे यत्र, नगरे जिनरक्षितः । आसीत् कृपणगेहेऽसौ, तबहिर्देशमाययौ ॥३४८॥ तदा तन्नगराधीशेऽपुत्रेऽकाले दिवंगते । तत्र प्रधाना राजार्ह - पुंगवेषणहेतवे ॥३४९।।