SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मञ्जूषायां विशालायां, पिधानेन च तां व्यधात् । इतश्चाऽसौ विषण्णात्मा, भ्रातृदाहसमुत्सुकः ॥ ३२४॥ अपराधीव निगडे, बद्धो निःसर्तुमैहत । कष्टेन यापयन् कालं, रुदन गाढं मुहुः शिशुः || ३२५ || तं शिशुं स्वादुभोज्यानि, भोजयित्वा दिने दिने । प्रभाते कशयाऽऽघात्य, रोदयित्वाऽतिनिर्दय || ३२६ ॥ अश्रुबिन्दून्निपततो, मौक्तिकत्वमुपेयुषः । लिप्सू रुदन्तं नाऽमुञ्चत्प्रार्थितोऽपि मुहुर्मुहुः ॥३२७॥ एवं निष्कास्य मञ्जूषा - मध्याच्छ्रेष्ठी स प्रत्यहम् । रुदन्तं कशया निघ्नन्, निर्दयोऽसौ तुतोद तम् ॥३२८॥ अश्रुबिन्दुसमुद्भूतं, गृह्णन् मौक्तिकसंचयम् । इत्थं कशाऽभिघातेन, प्रतिपातेऽतिदुःखितः ॥ ३२९ ।। श्रेष्ठिनः सप्तमावन्यां, मञ्जूषायां नियन्त्रितः । बन्धुना रहितो बालो, निनायाऽहानि कानिचित् ||३३०|| इतश्च जिनदत्तस्य किं जातं तन्निगद्यते । तस्मिन्नरण्ये मध्याह्न-काले तद्भाग्ययोगतः ॥३३१॥ गारुडीं विश्रुतां विद्यां, धरन्तः केचिदाययुः । ते मार्गश्रमशान्त्यर्थं, तरोस्तस्याऽध आस्थिताः ॥३३२|| कुर्वन्तस्ते हि संलापं, गारुडास्तरुलम्बितम् । जिनदत्तं दृढं बद्धं दृष्ट्वा वस्त्रेण विस्मिताः ॥३३३|| तत्रैको वृक्षमारुह्या-ऽधस्तात्तमवतार्य च । निश्चेष्टं ददृशुः सर्वे, कृष्णवर्णकलेवरम् ॥३३४|| ततो गारुडिकैः सर्प-दष्ट एषोऽस्ति मानवः । एवं निर्धारितं तर्हि, सर्पदष्टः पुमान् खलु ॥ ३३५॥ षण्मासान् जीवतीत्यस्मा - दस्य गारुडिकेन हि । मन्त्रेण जीवितं देयमस्माभिः करुणापरैः ||३३६ ॥ ( युग्मम् ) ६२
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy