________________
अहो पुण्यमहोभाग्यं, फलं लब्धं नृजन्मनः । इति शशंसिरे ते तं, श्रेष्ठिनं चाऽपि नन्दनम् ॥३६३।। रत्नश्रेष्ठी निजां कन्यां, दातुं कृपणमिभ्यकम् । प्रार्थयामास तं तस्य, पुत्राय श्रुतिमात्रतः ॥३६४|| कृपणेभ्यो मणिश्रेष्ठि - महाग्रहवशंगतः । स्वीचकाराऽथितं तूर्णं, हर्षोत्कर्षेण सङ्कुलः ॥३६५|| मुहूर्तं च विवाहस्य, विनिश्चेतुं प्रचक्रमे । वैशाखशुक्लपक्षस्य, तृतीया निश्चिताऽभवत् ॥३६६।। इतश्च कृपणश्रेष्ठी, कृते वासरनिश्चये । चिन्तयामास किं कुर्वे ?, पुत्रोऽस्ति कुष्ठिकः खलु ॥३६७।। कुष्ठाकान्तसुतस्याऽऽस्यं, कथं लोकान् प्रदर्शये ? | इति चिन्तातुरस्याऽस्या- ऽस्फुरच्चित्ते सपद्यथ ॥३६८।। यद्येष मौक्तिकक्षारो, बालो मत्वा वचो मम । मद्दारकस्य स्थाने चेत्, कुर्याद् वैवाहिकं विधिम् ॥३६९।। तदा सर्वं शुभं भावी-त्येवं सोऽभून्निराकुलः । प्राह च मौक्तिकक्षारं, मञ्जूषासंस्थितं तकम् ॥३७०।। कन्यां शीलवती नाम्नी, पुत्रार्थं परिणीय मे । यदि दत्से तदा भो ! त्वां, मोक्ष्याम्यपरथा न तु ॥३७१।। श्रेष्ठिनस्तद् वचः श्रुत्वा, प्राह बालः स निर्भयः । कन्याया जीवितं तस्याः, करिष्ये पलितं न हि ॥३७२॥ (युग्मम्) तदाऽऽह कृपणश्रेष्ठी, यद्येवं न करिष्यसि । तदा त्वाऽऽनिधनादत्र, मञ्जूषायां निवासयेः ॥३७३।। करिष्याम्यहितां तीव्रां, वेदनां ते न संशयः । भवन्ति दुर्जना नित्यं, परपीडनतत्पराः ॥३७४।। श्रुत्वेति मृत्युभीत्या स, मौक्तिकक्षारको हृदि । चिन्तयामास किं कुर्वे ?, भावि यन्न तदन्यथा ॥३७५।।
६५