SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सप्रणाममुवाचेदं, शिष्टाचारविशारदः । प्रेरितो दैवयोगेन, 'भवितव्यं न रुध्यते' ॥२५९।। सामान्यैर्मोदकैस्तुल्यं, न ज्ञेयं मोदकद्वयम् । एतत्प्रभावं विज्ञाय, साधुरीत्योपयुज्यताम् ॥२६०।। मनसा सावधानेन, श्रूयतां वचनं मम । न प्रमादो विधेयोऽत्र, कल्याणविषये प्रभो ! ॥२६१।। सप्ताहाभ्यन्तरे राज्य - लाभ एकस्य भक्षणात् । जायते ध्रुवमित्यत्र, नैव कार्या विचारणा ॥२६२।। अन्यभक्षणमाहात्म्यं, तद्भोक्ता हि प्ररोदिति । तन्नेत्रपतिताश्रूणि, मौक्तिकानि भवन्ति च ॥२६३।। ततोऽतिहर्षितेनैव, ठक्कुरेण च मोदकौ । भक्षितुं निजपुत्राभ्यां, ददाते तो फलेच्छया ॥२६४।। भक्षणानन्तरं पुत्रौ, स लोभान्मक्ष्वताडयत् । किन्तु कस्याऽपि चक्षुआं, मौक्तिकानि न निर्ययुः ॥२६५।। ततोऽतिरुष्टः प्रोवाच, जिनदासं स ठक्कुरः । पुत्रताडनमात्रार्थं, त्वमेवं व्यदधा ध्रुवम् ॥२६६।। मयाऽनुमीयते चेत्थं, कौटिल्यं तव हार्दिकम् । अतोऽहं ते हनिष्यामि, पुत्रौ द्वावपि साम्प्रतम् ॥२६७।। इत्युक्त्वाऽऽहूय शालातो, जिनदासस्य नन्दनौ । निहन्तुं सोऽर्पयत्तूर्णं, चाण्डालाय नृशंसिने ॥२६८।। स चाण्डालमुवाचेत्थ - मरे ! चाण्डाल ! मे वचः । श्रूयतां सावधानेन, हन्येतां बालकाविमौ ॥२६९।। नो चेद्वियोक्ष्यसे प्राणै-स्त्वमेव सुविनिश्चितम् । एतत्छुत्वा गृहीत्वा च, जिनदासस्य नन्दनौ ॥२७०॥ चाण्डालस्तद्वधं कर्तुं, निर्ययौ नगराद् बहिः । किमालोच्य कृतं किं हि, जातं भाग्येन कश्मलम् ? ॥२७१।। ५७
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy