SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ इतश्च जिनदासोऽसौ, मनसाऽचिन्तयद् भृशम् । किमसत्यं वचो जातं, मुनीनां तथ्यवादिनाम् ? ॥२७२।। मन्निमित्तवधो भावी, पुत्रयोर्मे निरागसोः । अथवा भाग्यहीनस्य, ममैतादृग् विपर्ययः ॥२७३।। किं करोमि प्रपद्यैकं, शरण्यं वा कृपाजुषम् ? । अथवा शरणं दुःखे, धर्म एव न संशयः ॥२७४।। अतो मे पुत्रयोः पुण्यं, तच्छरण्यं भविष्यति । निश्चितं तत्प्रभावेण, क्षेमं सर्वविधं तयोः ॥२७५।। भाग्याधीनं जगत्सर्वं, चिन्तनं मे निरर्थकम् । जिनदासो विमृश्येदं, धृति लेभे च शाश्वतीम् ॥२७६।। चाण्डालेन नीयमानौ, वधस्थानं शिशू उभौ । विज्ञातात्मवधौ भूरि-मार्गे रुरुदतुस्तराम् ॥२७७।। तत्रैकस्य कनिष्ठस्य, जिनरक्षितकस्य तु । मौक्तिकानि प्रजातानि, पतिता अश्रुबिन्दवः ॥२७८।। वस्त्राञ्चले मौक्तिकानि, जग्राह मतिमानसौ । जिनरक्षितनामाऽत्र, प्रयत्नेनाऽखिलान्यपि ॥२७९॥ रुदन्तौ बालकौ दृष्ट्वा, दयायुक्तोऽपि घातकः । एतौ कन्दर्पदर्पघ्नाविदं वचनमब्रवीत् ॥२८०॥ हे बालौ ! शृणुतं स्वस्थौ, ठक्कुरादेश ईदृशः । इमौ बालौ त्वया घात्यौ, नो चेत्प्राणैर्वियोक्ष्यसे ॥२८१॥ अतो युवां हनिष्यामि, वधस्थान उभावपि । एतदर्थं नये हन्तुं, स्मरतं स्वेष्टदेवताम् ॥२८२॥ इति तद्वचनं श्रुत्वा, जिनदत्ताभिधः शिशुः । ज्येष्ठोऽवदत् कोऽपि, नैवाऽपराधोऽकारि जातुचित् ॥२८३।। ठक्कुरस्य पुरेशस्य, चावाऽऽभ्यां भद्र ! निश्चितम् । तदा कथं नौ हन्तुं त्वा-मादिशन्मतिमानसौ ॥२८४||
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy