SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ किन्तु द्वयोर्मोदकयो -रेकैकस्मिन् पृथक्-पृथक् । लतयोभिन्नपत्राणां, चूर्णं क्षेप्यं प्रभावयुक् ॥२४६।। यतः पुत्रद्वयायैतौ, ठक्कुरस्य महामतेः । समप्यौं मोदकौ सद्यो, यथोक्तफलदायिनौ ॥२४७।। एवमुक्त्वा लताचूर्णे, दत्त्वा पत्न्यै पृथक् पृथक् । बहिर्ययौ स्वकार्यार्थं, जिनदासो महाशयः ॥२४८।। मोदकातिप्रियौ बालौ, चिरान्न मोदकं मम । अभक्षतामतस्ताभ्या-मपि कार्या हि मोदकाः ॥२४९।। जिनमत्या विचार्येत्थ-मधिकं मोदकद्वयम् । निर्माय रक्षितं तत्र, भिन्ने भिन्ने स्थले स्वयम् ॥२५०॥ सौषधं च द्वयं तत्र, निरौषधमथो द्वयम् । उपरिष्टात्तु निः श्रेण्याः, स्थापितं प्रथमं द्वयम् ॥२५१॥ अधस्तात् स्थापितं तत्र, निरौषधमथो द्वयम् । अथाऽपि भाग्यवैचित्र्याज्जातं विस्मयकारकम् ॥२५२।। मध्याह्नकाल आयातौ, तस्य पुत्रावुभावपि । विद्यालयादधीत्याऽऽशु, मातुराह्वानतत्परौ ॥२५३।। क्षुत्पिपासाकुलौ तौ च, जातौ भोजनकाक्षिणौ । हट्ट आसीत्तदा माता, कुर्वती क्रयविक्रयम् ॥२५४॥ क्षुधितत्वाच्च निःश्रेण्या, गतावूर्ध्वं तु तौ सुतौ । तत्रस्थौ मोदकौ दृष्ट्वा, पुण्येनौषधिसंयुतौ ॥२५५।। गृहीत्वा भक्षयित्वा ता-वेकैकं बहुतुष्टिदम् । पाठशालां गतौ बालौ, ततः श्रेष्ठी समाययौ ॥२५६॥ किञ्चित्कालं गृहे स्थित्वा, यथाबुद्धि विमृश्य च । अद्य प्रत्युपकुर्वेऽहं, ठक्कुरं गुणशालिनम् ॥२५७|| अधोभागस्थितौ तौ च, गृहीत्वा मोदकावुभौ । ठक्कुरस्याऽर्पणायैष, सहर्ष तमुपाययौ ॥२५८।। ५६
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy