SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ धर्माराधनमस्माकं, कथं जायेत तं विना ? | चिन्तयन्निति धर्मात्मा, श्रद्धाशुद्धधिया मुदा ॥२३३।। धर्ममाराधयन् दीना-ननाथांश्च समुद्धरन् । विदधानः सदा पञ्च-परमेष्ठिनमस्कृतिम् ॥२३४।। आत्मप्रेरणया धर्म, स्वं कुटुम्ब नियोजयन् । तत्र श्रेष्ठी चिरं कालं, यापयामास तोषभाक् ॥२३५।। श्रेष्ठिना जिनदासेन, चित्ते चिन्तितमेकदा । प्रभाविभिलतापर्णैः, किं विधेयं मयाऽधुना ? ॥२३६।। पुत्रद्वयाय दद्यां किं, लतापर्णानि वा नहि ? | भाग्यहीनतया किं नः, पणैरेभिर्भविष्यति ? ॥२३७॥ यतो भाग्यविहीनाना-मुत्तमाऽपि न लाभदा । सामग्री जायते लोके, सर्वांशैरपि शोभिता ॥२३८॥ एवं विचिन्त्य स श्रेष्ठी, परोपकृतितत्परः । परस्मै तानि पत्राणि, विस्रष्टुं समकल्पयत् ॥२३९।। ततस्तद्दानपात्रं स, गवेषयितुमुद्यतः । स्वग्रामस्वामिनं तं हि, ठक्कुरं निरधारयत् ॥२४०।। उपकारी ममैवाऽयं ग्रामाधीशोऽस्ति ठक्कुरः । प्रसादेनैव यस्याऽहं, निवसामि सुखेन यत् ॥२४१॥ मण्डयित्वा तथा हटूं, क्रयविक्रययोगतः । उपाय॑ द्रविणं किञ्चि-ज्जीवामः सुखनिर्भरम् ॥२४२॥ तस्माद्देयानि पर्णानि, ठक्कुरायोपकारिणे । विचार्येत्थं जगौ स्वीयां, पत्नीमाज्ञानुसारिणीम् ॥२४३। एवं प्रिये ! कुरुष्वाशु, सुगन्धी स्वादशालिनौ । मोदकौ चूर्णसंमिश्रौ, स्थापनीयौ पृथक्-पृथक् ॥२४४॥ लतयोरेतयोभिन्ना, गुणास्सन्तीति हे प्रिये ! । तच्चूर्णं मिलितं नैव, न्यस्यं मोदकयोस्त्वया ॥२४५।। ५५
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy