SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्वागतं नूतनसंस्कृतपत्रिकायाः जैनसमाजे साप्ताहिक-पाक्षिक - मासिक - द्वैमासिकाद्याः शतशो मुखपत्राणि पत्रिकाश्च प्रकाश्यन्ते । एताश्च सर्वा अपि प्रायशो जैनमुनिभिः साक्षादेव अन्यप्रेरणया वा प्रकाश्यन्ते । मुख्यतया चैता गूर्जरभाषया हिन्दीभाषया च प्रकाश्यन्ते । काश्चन पुनराङ्ग्लभाषयाऽपि प्रकाश्यन्ते । यद्यपि च प्रायशः सर्वेऽपि जैनमुनयः संस्कृतभाषा-व्याकरणं शिक्षन्त एव । तथाऽपि संस्कृतभाषीयपत्रिका न केनाऽपि प्रकाश्यन्ते स्म । परमितः सप्तदशवर्षेभ्यः पूर्वं (वि.सं. २०५५ तमे वर्षे ) गूर्जरराज्ये धन्धुकानगरान्तिकस्थस्य नन्दनवनतीर्थस्य प्रतिष्ठासमये जैनसमाजस्य प्रथमा संस्कृतपत्रिका ( षाण्मासिकी) नन्दनवनकल्पतरुनाम्नी प्राकाश्यं नीता याऽद्यावधि प्रकाश्यमाना विजृम्भते । अस्यां च पत्रिकायां संस्कृत - प्राकृतोभयभाषायां विविधं नूतनं साहित्यं प्रकाश्यते । ततश्चतुर्दशमित वर्षेभ्यः परं तन्नामेतो वर्षत्रयात् पूर्वं निःश्रेयसम्- नाम्नी द्वितीया षाण्मासिकी संस्कृतपत्रिका जैनमुनिभिः प्रकाशयितुं प्रारब्धा । अस्यां च पत्रिकायां द्वौ विभागौ स्तः । प्रथमे विभागे प्राचीनमद्यावध्यप्रकाशितं च संस्कृतसाहित्यं हस्तलिखितप्रतिभ्यः संशोध्य प्रकाश्यते । अपरे च विभागे नूतनं गद्य-पद्यसाहित्यं प्रकाश्यते । - साम्प्रतं च तृतीयाऽपि संस्कृतपत्रिका जैनमुनिभिः प्रकाशयितुमुपक्रान्ताऽस्ति । सेतुबन्धनाम्न्याः त्रैमासिक्याः पत्रिकाया अस्याः प्रथमोऽङ्को गतवर्षस्य (वि.सं. २०७१ - तमस्य) आश्विने मासे एव प्रकाशितोऽस्ति । अस्यामपि पत्रिकायां द्वौ विभागौ स्तः प्राचीनः सेतुबन्धोऽर्वाचीनश्च । प्राचीने विभागे पूर्वर्षिभिर्विरचितेभ्यो ग्रन्थेभ्य: केचन विशिष्टा अंशाः प्रकाशिता दृश्यन्ते, अर्वाचीने च नूतनानां रचनानां प्रकाशनं विद्यते । उत्तमे कर्गदे चातुर्वणिकमुद्रणेन शोशुभ्यमानाया अस्याः पत्रिकायाः प्रकाशनेन संस्कृतभाषासाहित्यं जैनसमाजश्च लाभान्वितौ जातौ स्तः । नन्दनवनकल्पतरुपरिवारः सेतुबन्धनाम्न्या अस्या नूतनसंस्कृतपत्रिकायाः हार्दं स्वागतं करोति । "व्याहरामो वयं स्वागतं स्वागतम् !!" ३६
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy