________________
एक ईदृशो ग्रामः, यत्र जनाः, संस्कृतं वदन्ति ।'
आचार्यो डो. रामकिशोर मिश्रः
कर्णाटकप्रदेशे शिमोगानगराद् दशकिलोमीटरदूरे तुङ्गानद्यास्तटे स्थिते मुत्तुरुनामके ग्रामे पञ्चशतपरिवारा निवसन्ति । अस्मिन् ग्रामे सर्वे जनाः संस्कृतं वदन्ति । यदि भवान् ग्रामं प्रविशति, तदा कश्चिद् भवन्तं पृच्छति - कीदृशो भवानस्ति ? भवतः किं नाम ? कथय । अत्र उपविश ।
ग्रामे बालकानां प्रारम्भिकशिक्षा संस्कृतेन दीयते, येन ज्ञायते यदत्र संस्कृतं मातृभाषा विद्यते । स्वराणामत्र ज्ञानं कार्यते व्यञ्जनानां च ।
वृद्धयुवका बालेभ्यो बालिकाभ्यश्च संस्कृते गीतानि शिक्षयन्ति । यथा- (१) आगच्छ बाले ! मम पार्श्वमेहि ।
गोभ्यः खगेभ्यो दानं प्रदेहि ॥ मातरः पितरश्च स्वशिशून् कथाः श्रावयन्ति । यथा – (१) पुत्र ! वृक्षे काक उपविष्ट आसीत् । तस्य चञ्चौ रोटिकाखण्डमासीत् ।
. (२) पुत्रि ! पश्य, गगने पक्षिण उड्डीयन्ते, ततो वृक्षे निपतन्ति ।
अन्यग्रामेभ्यो नगरेभ्यश्च जना अत्र संस्कृतशिक्षणार्थमागच्छन्ति । अस्मिन् ग्रामे सर्वान् जनान् संस्कृतं वदतो दृष्ट्वा प्रसन्ना भवन्ति । अन्यत्र च गत्वा ते ग्राम संस्कृतग्राम इति वदन्ति । संस्कृतं ग्रामस्य मातृभाषेति ते कथयन्ति कीर्तयन्ति चेति शम् ।
१. १५-५-२०१५ दिनाङ्कस्य मयराष्ट्रतः प्रकाशिताद् ‘अमरउजाला' समाचारपत्रात् साभारम् ।
२५