SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पत्रम् - मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे । वटपद्र(वडोदरा)नगरे सानन्दं चातुर्मासी पूर्णीकृत्य पूज्यगुरुभगवद्भिः साकं 'भोयणी' तीर्थं प्रति वयं सर्वे विहरिष्यामः । तत्र तीर्थाधिपतिश्रीमल्लिनाथप्रभोः सांनिध्ये दिनत्रयं तपोधर्ममाराधयितुं बहवो जनाः संमीलिता भविष्यन्ति । गुरुभगवद्भिर्वर्षेभ्यः पूर्वम् 'उपमितिभवप्रपञ्चा कथा' ग्रन्थोऽध्यापितः । स ग्रन्थो मया पुनरिदानी पठितः । अस्मिन् ग्रन्थे धर्मप्राप्त्यर्थं किं कर्तव्यमिति सुचारुरूपेण वर्णितमस्ति, तन्मनसिकृत्य किञ्चिल्लिखामि । दशमशताब्द्यां जातेन श्रीसिद्धर्षिगणिभगवता ग्रन्थ एष विरचितोऽस्ति । एष ग्रन्थोऽस्माकं हृदि स्थिताननादिकालीनान् कुसंस्कारान् प्रणाशयति, प्रगाढमोहं शिथिलीकरोति, पञ्चेन्द्रियाणां शब्दरूपादिविविधविषयाणां तीव्रासक्ति चाऽपि मन्दीकरोति । एवं वस्तुत एष ग्रन्थो वैराग्यपोषकोऽस्ति ।। अद्यावधि जैन-जैनेतरसाहित्ये बहवः कथाग्रन्था उपलब्धा भवन्ति, किन्तु नैतादृशो रूपककथाग्रन्थ: केनाऽपि विरचितोऽस्ति संस्कृतसाहित्ये । वैश्विकसाहित्यदृष्ट्याऽऽङ्ग्लभाषायां 'जहोन बनीअन' नाम्ना विदुषा इ.स. १६६० वर्षे ‘पीलग्रीम्स प्रोगेस' इति नाम ग्रन्थो रचितोऽस्ति । 'उपमिति' ग्रन्थेन सहाऽस्य ग्रन्थस्य कयाचिद् दृष्ट्या तुलना क्रियते, किन्त्वेतयोर्द्वयोर्ग्रन्थयोर्मध्ये महदन्तरं वर्तते । ‘पीलग्रीम्स प्रोग्रेस' इति ग्रन्थो जीवमेकमाश्रित्य लिखितोऽस्ति किन्तु 'उपमिति' ग्रन्थस्तु समस्तसंसारिजीवानुद्दिश्य विरचितोऽस्ति, अतोऽस्य ग्रन्थस्य मूल्यमधिकं विद्यते । श्रीव्यासभगवता प्रणीतायां श्रीमद्भागवतकथायां 'पुरञ्जन' आख्यानमस्ति । अस्मिन्नाख्याने रूपककथायाः केचिदंशा दृश्यन्ते । एवं 'उपमिति' ग्रन्थस्य सदृशोऽद्यावधि रूपकग्रन्थो न कुत्राऽपि प्राप्यते । समस्तोऽप्येष ग्रन्थः कथारूपेण वर्तते । तत: 'कथाग्रन्थ' उच्यते, किन्तु ग्रन्थेऽस्मिन् द्रव्यानुयोगो गणितानुयोगश्चरणकरणानुयोगश्चेति अन्येऽप्यनुयोगा विद्यन्ते । तत्त्वज्ञानं, कर्मसाहित्यं, न्यायः, दर्शनं, आगम:, ज्योतिर्विद्याः, व्याकरणं, आरोग्य, नीतिः, राज्यनीतिः, युद्धनीतिः, व्यापारः - इति सर्वविषयकं ज्ञानमस्मिन् ग्रन्थे प्ररूपितमस्ति । एतदेवाऽस्य ग्रन्थस्य वैशिष्ट्यमस्ति । २६
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy