________________
न्तरेणैव । तथापि नामनिरूप्यत्वं नामनये वेदान्तनये चाऽविशिष्टमित्येतावन्मात्रेण नामनिक्षेपमूलकत्वमस्याऽभिधीयते ।
नन्वेवं निक्षेपचतुष्टयाभ्युपगन्तस्याद्वादेऽपि अर्थस्य नाम्ना सह तादात्म्यलक्षणस्सम्बन्धो नाऽभ्युपगम्यत एव, किन्तु वाच्यवाचकभाव एवेति तत्राऽपि वस्तुगत्या नामनिक्षेपप्रवेशो नास्तीति वाच्यम् । स्याद्वादे सम्बन्धमात्रस्य भेदसम्वलिताभेदलक्षणकथञ्चित्तादात्म्यसम्बन्धनियतत्वाभ्युपगमात् । न च शब्दार्थयोर्भेदनिमित्तं स्वस्वासाधारणरूपं समस्ति, ततो भेदोऽस्तु, अनुगामि तु किमप्यभेदनिमित्तं नाऽऽलोक्यते, सत्त्वप्रमेयत्वादेरनुगामिनो निमित्तत्वे घटशब्दस्य पटरूपार्थेन सहाऽभेदः स्यादिति वाच्यम् । तुल्यनामधेयत्वस्याऽतिप्रसङ्गानापादकस्याऽभेदनिमित्तत्वात् । वस्तुतो वाच्ये वाच्यताशक्तिः वाचके च वाचकताशक्तिः । तादृशशक्तिद्वयपिण्डितरूपो नृसिंहाकार एव वाच्यवाचकभावः । शक्तिश्च शक्तिमतोऽभिनेति वाच्यवाचकभावलक्षणसम्बन्धोऽपि वाच्यवाचकाभ्यामभिन्न इति वाच्योत्पत्तिकाले वाच्यताशक्त्यात्मना स उत्पद्यते वाचकोत्पत्तिकाले वाचकताशक्त्यात्मनेति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन नामाभिन्नोक्तसम्बन्धाभिन्नत्वादर्थस्य नामाभिन्नत्वमिति स्याद्वादे नामनिक्षेपाभिमतनामार्थतादात्म्यं घटत एव । वेदान्त्यभिमतजगत्स्वरूपे च स्थापनानिक्षेपाभिमताकृतितादात्म्यं स्वरूपत एवोत्पद्यत इति ध्येयम् ॥
द्रव्यनिक्षेपाभ्युपगन्ता नयोऽपि द्रव्यनिक्षेपः । स च सर्वस्य वस्तुनो द्रव्यरूपतामेवाभ्युपगच्छति, प्रमाणयति च – घटादिकं वस्तु मृदादिद्रव्यरूपमेव, तद्व्यतिरेकेणाऽनुपलभ्यमानत्वात्; यद् यद्यतिरेकेण नोपलभ्यते तत् तद्रूपं यथा घटस्य स्वरूपं घटरूपमिति । अत्राऽपि घटादिकार्यस्य जलाहरणादेर्मुत्पिण्डाद्यवस्थायां न प्रसङ्गः; तत्तदवस्थाविशेषभावापन्नस्यैव तत्तद्रव्यस्य तत्तदवस्थाकार्यकारित्वाभ्युपगमात् । न चाऽवस्थाऽवस्थातुरन्या; तत्त्वे 'तस्येयमवस्थे'तिप्रतीयमानसम्बन्धस्यैवाऽघटनात् । न चाऽभेदे षष्ठ्यर्थसम्बन्धानुपपत्तिः; 'घटस्य स्वरूपं' 'राहोः शिर' इतिवदुपपत्तेः । न च भेदेऽपि 'राज्ञः पुरुष' इतिवत्सम्बन्धोपपत्तिरिति साम्प्रतम्; राजानमन्तरेण पुरुषोपलब्धिवन्मृदाद्यन्तरेण घटाधुपलब्धेरभावात् ।
यत्र यदनुगामि तत्र तद्रव्यमित्येवं सर्वत्र द्रव्यस्वरूपं प्रतिपत्तव्यम् । वर्तमानत्वेनाऽभिमतो घटादिः वर्तमानकालेऽपि न वर्त्तते, पूर्वापरकालाऽवृत्तित्वात्; यन्नैवं तन्नैवं, यथा द्रव्यम् । अनेन त्रिकालावृत्तित्वे शशशृङ्गादिवदलीकत्वं तस्य सिद्ध्यति । अत एवोक्तं -
"न 'व्यक्तेः पूर्वमस्त्येव, न पश्चाच्चाऽपि नाशतः । आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा ॥ अव्यक्तादीनि भूतानि, व्यक्तमध्यानि भारत ! । अव्यक्तनिधनान्येव, तत्र का परिदेवना ? ॥ अदर्शनादापतितः, पुनश्चाऽदर्शनं गतः । नाऽसौ तव न तस्य त्वं, वृथा का परिदेवना ? ॥" इति ॥
१. आविर्भावस्य ।