________________
सामान्यकारता तत्राऽप्यस्त्येव; अन्यथा वस्तुत्वव्यापकाकाररूपत्वाभावे वस्तुत्वमेव तस्य न स्यात् । उत्पादव्ययध्रौव्यलक्षण-सत्त्वमप्याकारमुपादायैव घटते; यथा सुवर्णं कुण्डलाकारतयोत्पन्नं, अङ्गदाकाररूपेण विनष्टं, स्वस्वरूपाकारेण स्थितमिति । अर्थक्रियाकारित्वलक्षणं सत्त्वमप्याकाररूपतायामेव घटते; नहि मृद्रव्यं पिण्डस्थासकोशाद्याकारतामनासाद्य घटरूपोपादेयकार्यं विधातुमलम्; घटोऽपि पृथुबुध्नोदराद्याकृतिरूप एव जलाहरणाद्यर्थक्रियानिमित्ततामासादयति । यस्याऽपि वस्तुनो विशेषतः कश्चिदाकारो न शृङ्गग्राहिकया निर्देष्टुं शक्यते, तदपि असद्भूतस्थापनामवलम्ब्यैव व्यवहारवीथीमवतरति; यथा गणनाव्यवहारे निर्धारितामुकसङ्ख्यकपणाणककार्षापणरूप्यकादेः धान्यादिमूल्यदानादिना निश्शेषतो विविच्योपयोगं प्रदाऽवशिष्टाभावावगतये एतादृशाकार एव स्थाप्यत इत्येवं स्थापनानिक्षेप: परिष्कर्तुं शक्यः । एतदभिप्रायमाश्रित्यैवोच्यते
"कुलालव्यापृतेः पूर्वो यावानंशः स नो घटः ।
पश्चाच्च पृथुबुध्नादि-मत्त्वे युक्ताऽस्य कुम्भता ॥१॥ ॥इति॥ एतन्मूलकश्च नैयायिकादीनामवयविवाद इत्थं प्रसाध्याङ्गको भवति । तथा हि – अवयवव्यतिरिक्तोऽवयवी तैरिष्टो द्रव्यरूपतया । परन्तु समवायिकारणत्वलक्षणं पारिभाषिकमेव द्रव्यत्वं तैरूपगतं, न तु पूर्वापरपर्यायानुगामिस्थिरभावलक्षणं 'द्रवति तास्तान् पर्यायान् गच्छती'तिव्युत्पत्त्यवधृतस्वरूपं पारमार्थिकद्रव्यत्वमूर्खतासामान्यापरपर्यायम् । पारिभाषिकद्रव्यरूपताऽप्यस्य तदा स्यादवयविरूपतायां, यदि यावदवयवगुरुत्वादधिकं गुरुत्वमत्र नमनोन्नमनादिकार्यानुमेयं स्यात् । यतोऽवयविसत्ताकालेऽप्यवयवसत्ता पृथक्तयाऽवयविवादे स्वीकृताऽस्ति, आकृतिरूपतायां तु गुणे गुणानङ्गीकारान्न तत्राऽतिरिक्तगुरुत्वादिकम् । उक्तन्यायेनैव कपालकपालिकादीनामपि न द्रव्यरूपता । नामरूपता च नामार्थयोस्तादात्म्यातिरिक्तशक्तिलक्षणसम्बन्धाभ्युपगमपराहता । मृत्त्व-सुवर्णत्वादिसाङ्कर्यादेकं घटत्वं जातिरूपं द्रव्यरूपे मृद्घटादौ नाऽभ्युपगन्तुं शक्यम् । मृत्त्वव्याप्यं घटत्वमन्यद् अन्यच्च सुवर्णत्वव्याप्यं घटत्वमित्येवं नानारूपं घटत्वमिति कल्पनं च साधकाभावादेव न सम्भवति । अनुगतप्रतीतिनिमित्ततयैव च जातिकल्पनं; मृघटसुवर्णघटपाषाणादिघटेषु 'अयं घटोऽयं घट' इत्यनुगतप्रतीतिर्नाऽननुगतेनोक्तेन केनाऽपि घटत्वेनेति अवयवसंनिवेशरूपसंस्थानविशेषवृत्त्येव घटत्वमिति तदाश्रयः संस्थानविशेष एव घटो न द्रव्यम्; जलाहरणाद्यर्थक्रियासमर्थत्वमपि तस्यैवेति । भावरूपत्वमपि तस्यैव, अर्थक्रियासामर्थ्यावच्छेदकरूपवत एव भावत्वात् ।
अनया दिशा कपालकपालिकादीनामप्याकृतिरूपताऽवसेया; सूक्ष्मेक्षिकायां परमाणुप्रचयसनिवेशविशेषरूपतायामेव घटादेः पर्यवसानम् ।। नामस्थापनानिक्षेपद्वयमूलकश्च वेदान्तिनां जगतो नामरूपात्मकतावादः । यदुक्तं
"सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत्" ॥ इति॥ न चैवं निक्षेपद्वयाभ्युपगमे स्याद्वाद इव तयोनिमित्तभेदापेक्षया विरोधपरिहारेणाऽवस्थानस्य स्वीकरणे एकान्तवादताहानिरिति वाच्यम् । नामनयेन हि नामतादात्म्येन नामरूपताऽभ्युपगता । वेदान्तिना तु नामनिरूप्यत्वेन नामरूपताऽऽदृता । नाम्नश्चाऽर्थेन सह न तादात्म्येन सम्बद्धता, किन्तु वाच्यवाचकभावलक्षणसम्बन्धा
१९