________________
न चैवमुक्तदिशा दोषपरीहारेऽर्थरूपतैव शब्दस्याऽस्तु, शब्द एवाऽर्थाद्व्यतिरिक्तो माऽस्त्विति वाच्यम् । यथा हि तद्घटरूपार्थविरहकाले तद्घटनाम्नः सत्त्वमित्यनुगामित्वं तस्य नैवं तद्घटनामविरहकाले तद्घटरूपार्थस्य सत्त्वमित्यर्थस्याऽननुगामित्वाच्छब्दस्य चाऽनुगामित्वात्; अनुगाम्यननुगामिनोर्मध्येऽनुगामिसत्तैवाऽऽदृता भवत्यननुगामिनः, यथा रज्जुसर्पमालादिष्वनुगामिन इदमर्थस्येत्येवंनीत्या नामनिक्षेपमतं परिष्कर्तुं सुकरम् ।
नामनिक्षेपाच्चाऽऽविर्भावो भर्तुहरिमतस्य । तन्मते चाऽनाद्यनक्षरं शब्दब्रह्मैव ॐकारस्वरूपं जगत उपादानम् । उपादेयस्योपादानस्वरूपतयोपादानसत्तैवोपादेयसत्तेति सर्वस्य वस्तुन: शब्दरूपता । तन्मते ज्ञानमात्रमेव शब्दसंघटितमूत्वाऽवभासते । निर्विकल्पकमपि किमपीत्येवमव्यक्तशब्दांकारारुषितमेव संवेद्यते । अत एवोक्तं -
"न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ १ ॥ वागुरूपता चेद् व्युत्क्रामे - दवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥२॥” इति ॥
एवं स्थापनानिक्षेपाभ्युपगन्ता नयोऽपि स्थापनानिक्षेपः । स च सर्वस्य वस्तुन आकाररूपतां शास्ति, प्रमाणयेति चाऽनुमानम् । तथा हि - घटादिकं वस्तु पृथुबुघ्नोदराद्याकाररूपं तद्ग्रहणे सत्येव गृह्यमाणत्वात् तद्ग्रहणमन्तरेणाऽगृह्यमाणत्वाद्वा । अत्राऽपि व्याप्तिदृष्टान्तादिकं पूर्ववद् भावनीयम् । इदमस्यैदम्पर्यम् - नहि घटादिकं नाम घकारोत्तराकारोत्तरटकारोत्तरत्वरूपानुपूर्वीरूपस्वाकारमन्तरेण क्वचिदपि प्रतीताववभासते । वाक्यमपि ‘नीलो घट’ इत्यादिरूपं स्वन्तनीलादिपदोत्तरस्वन्तघटादिपदत्वरूपाकाङ्क्षास्वरूपाकारारुषितमेवाऽवभासते । एवं प्रकरणपरिच्छेदाध्यायादिकं किं बहुना ? एकोऽप्यकारादिर्वर्णः स्वव्यञ्जकलिप्यादिप्रतिनियतारोपिताकारारुषित एव बालानां प्रतीतिमधिरोहति । भाषावर्गणापुद्गलारब्धस्तु विभिन्नाकार्तामन्तरेणाऽसङ्कीर्णस्वभावतया प्रतीतिपथं कथमारोहेत् ? द्रव्यमपि मृदादि गुणपर्यायविकलं कदापि नोपलभ्यते । उपलम्भे वा स्वलक्षणमेवाऽसौ जह्यात् । अत एवाऽऽचार्यदेशीयः द्रव्ये द्रव्यनिक्षेपस्य द्रव्यद्रव्य इत्येवंरूपस्य शून्यतामेवाभ्युपगच्छति । गुणपर्यायसहितं च पर्यायाकृतिरूपतयैवाऽवभासते । सावयवानां च पुद्गलद्रव्याणामवयवसन्निवेशविशेषरूपाकृतिरूपतयैवोपलम्भ इति तेषामाकृतिरूपता निराबाधैव । परमाणोरप्यन्यारदृश आकारो वस्तुत्वादेव पक्षधर्मताबलादास्थेयः । धर्माधर्माकाशजीवानां सप्रदेशत्वादाकृतिरूपतयैवाऽवभासः । प्रदेशास्तु तदीयाः प्रदेशिवियुता न भवन्त्येवेति प्रदेश्याकृतिस्वरूपसन्निविष्टतैव तेषाम् । गुणाश्च स्वाश्रयद्रव्याऽजहद्वृत्तय इति तदाकारेणैवाऽऽकारवन्तः । नीलाद्याकारप्रतीतिविषयत्वाच्च नीलाद्याकारवन्तः । सामान्यविशेषौ च न स्वतन्त्रौ, किन्तु वस्तुस्वरूपसन्निविष्टाविति वस्तुनो घटादेः साकारत्वात्तावप्याकृतिरूपतां स्वीकुरुतः ।
न च ज्ञानस्य साकारोपयोगरूपत्वात् साकारत्वेऽपि दर्शनस्य निराकारोपयोगरूपत्वान्नाऽऽकृतिरूपति वाच्यम् । तत्र निराकारत्वं नाऽऽकाररहितत्वं किन्तु सामान्यविषयत्वमेवेति विशेषाकारराहित्ये ऽपि
१८