________________
इदं च लक्षणं नामस्थापनाद्रव्यभावेषु समनुगतम् । तथा हि - 'नामघट' इत्यादिस्वरूपे निक्षेपे कर्मधारयवृत्तिः; समभिव्याहारो नामघटत्वादिः; तदाश्रयो यत् विशेष्यभावापन्नवस्त्वभिधायकमात्रस्य घटादिपदादेरव्यवहितपूर्ववर्ति तन्नामपदादि, तद्वस्तुत्वव्यापकसत्त्वादिधर्मावच्छिनाशक्तं सत् विशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलमपि; यतो विशेष्यवस्तु घटादि, तस्य यः स्वरूपविशेषो नामघटादिः, तदाविर्भावनप्रत्यलत्वं घटाद्यव्यवहितपूर्ववर्तिनामपदे समस्ति, तथाभूतं वचनं नामपदं, तत्त्वं नामपदे समस्तीति लक्षणसमन्वयः । एवं स्थापनाद्रव्यभावेष्वपि । 'नामघट' इत्यादौ कर्मधारयसमास एव नामनिक्षेपप्रवृत्तिरिति बोधयितुं कर्मधारयवृत्तिसमभिव्याहाराश्रयेत्युक्तम् । 'मृद्घट' इत्यत्र 'मृत्' पदस्य न निक्षेपत्वमित्यावेदयितुं विशेष्यभावापन्नवस्त्वभिधायकपदमात्रव्यवहितपूर्ववर्तीत्यत्राऽशेषार्थकस्य मात्रपदस्य निवेशः । नहि नाम्न इव 'मृत्'पदस्याऽशेषविशेष्यपदाव्यवहितपूर्ववर्त्तिता; तन्त्वादीनां विशेष्यवाचकपदत्वे तदव्यवहितपूर्ववर्त्तित्वस्य 'मृत्'पदेऽभावात् । 'वस्तुत्वव्यापकधर्मावच्छिनाशक्ते'तिविशेषणात् सद्घटादिघटके सत्पदे न निक्षेपत्वप्रसङ्गः । एवं ज्ञेयघटादावपि । “विशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यले'त्यनेन अन्यत्र कर्मधारये यथा विशेष्यवाचकपदाव्यवहितपूर्ववर्त्तिविशेषणपदेन विशेष्यतावच्छेदकधर्मभिन्नप्रकारतावच्छेदकावच्छिनो बोध्यते नैवमत्र, किन्तु विशेषणविशेष्यपदाभ्यां सम्भूयैकविशेष्यतावच्छेदकधर्मावच्छिन्नस्यैवाऽवबोधः ।
यद्यपि नामनिक्षेपादिर्वचनविशेषोऽज्ञत्वादेव न कस्यचिदर्थस्याऽभ्युपगन्ता प्रतिक्षेप्ता वा, तथापि नामनिक्षेपाभ्युपगन्ता नयोऽपि नामनिक्षेप उच्यते; स वस्तुमात्रस्य नामस्वरूपत्वमभ्युपगच्छति, प्रमाणयति चाऽत्राऽनुमानमिदम् – अर्थो नामस्वरूप: नामप्रतीतो सत्यामेव प्रतीयमानत्वात् नाम्ना सहैव प्रतीयमानत्वाद्वा, नामस्वरूपवत्; यत् यत्प्रतीतौ सत्यामेव प्रतीयते तत् तत्स्वरूपं, यथा मृत्प्रतीतौ सत्यामेव प्रतीयमानो घटो मृत्स्वरूप.एवेति सामान्यव्याप्तिः । न चार्थस्य नामरूपत्वे यदर्थस्य यत्कार्यं तत्तन्नाम्नोऽपि स्यादित्यग्न्यादिशब्दोच्चारणे मुखदाहादिकं स्यादर्थावस्थानदेशे गुमगुमायमानता च स्यात् । रत्नादिशब्दोच्चारणादेव रत्नादिप्राप्तौ न तदर्थं प्रयासान्तरं कोऽप्यातिष्ठेदिति वाच्यम् । यथा हि घटस्य मुद्रूपत्वे घटस्य कार्य जलाहरणादि मृत्कार्यं भवति, न हि तन्मृदो व्यतिरिक्तादेव जातं येन मृत्कार्यं न स्यात्; एवं घटरूपार्थस्य घटनामरूपत्वे घटकार्यमपि घटनामकार्यं भवत्येव । यथा च घटस्य पूर्वकाले उत्तरकाले च मृद एव सत्त्वेन घटकालेऽपि तस्या एव सत्त्वं घटस्य तु तदवस्थारूपतयैव सत्त्वं, न तु स्वातन्त्र्येण; तथा सति नामावगमव्यतिरेकेणाऽपि तदवगमः प्रसज्येत । एतदभिप्रायेणैव चोच्यते -
"'व्यक्ते नष्टेऽपि नामैत-नृवक्त्रेष्वनुवर्तते ।।
तेन नाम्ना निरूप्यत्वाद्, व्यक्तं तद्रूपमुच्यते" ॥इति ॥ यच्च नामोच्चारणकालेऽर्थकार्यमापादितं तत् तदा स्याद् यदि यद् यत्कार्यं तत् तस्य सर्वास्ववस्थासु भवतीति नियमः स्यात्; न चैवं; तथा सति घटरूपार्थस्य जलाहरणादिकार्यं न कदाचिदपि विरमेत् । योग्यता तु सहकारिपुरस्कारेण यथा घटरूपार्थस्य, तथा तदात्मकावस्थालक्षणादिसहकारिपुरस्कारेण नाम्नोऽपि । तथा च तत्सहकारिसम्पादनार्थमायासान्तरमपि न निष्फलम् । न ह्यर्थावस्थानदेशे गुमगुमायमानताप्रसङ्गोऽपि, तदवस्थायां सूक्ष्मरूपेणैवाऽवस्थानस्याऽभ्युपगम्यत्वात् । १. घटादौ ।