SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ निक्षेपविचारः तार्किकचूडामणि-विद्यावाचस्पति - पण्डित श्रीशशिनाथ झा शर्मा ननु प्रमाणनयपरिच्छेद्यानां तत्त्वानां विशेषतोऽधिगमाय व्याख्याङ्गतया निक्षेपाः समये नामस्थापनाद्रव्यभावभेदेन चत्वारो निर्दिष्टाः, तत्र निक्षिप्यन्ते - स्थाप्यन्ते इति निक्षेपा इति निरुक्तिरपि तत्र तत्राऽऽदृता; एतावतेदन्तावन्निक्षेपत्वमिति विशेषतो नाऽवधारयितुं शक्यते । न च कर्मप्रत्ययान्त- 'निक्षिप्यन्त' इत्यनेन स्थापनाकर्मत्वरूपतया निष्टङ्कितमतो नाऽनवधारणांशलेशोऽपीति वाच्यम् । न हि पर्यायसहस्रोक्तावपि स्वरूपतो घटत्वस्य घटपदप्रवृत्तिनिमित्तस्याऽपरिच्छेदे घटपदादर्थविशेषावगतिः । एवं को निक्षेप: का वा स्थापना इत्येवं जाग्रति संशये निक्षेपकर्मत्वं स्थापनाकर्मत्वमित्यादिपर्यायान्तरघटितवचनसहस्रेणाऽप्यसन्दिग्धासाधारणस्वरूपप्रतिपत्तेरनुदयात् । न च सङ्केतविशेषसम्बन्धेन निक्षेपपदवत्त्वमेव निक्षेपत्वं, शास्त्रकाराणां नामस्थापनाद्रव्यभावेषु निक्षेपपदस्य सङ्केतो विद्यत इति सुघटं निक्षेपत्वस्याऽवधारणमिति वाच्यम् । नामादिषु चतुर्षु प्रवृत्तिनिमित्तस्यैकस्याऽवधारणं विना सङ्केतस्यैव कर्तुमशक्यत्वात् । न च हर्यादिपदवन्नानार्थक एवाऽयं निक्षेपशब्द इति नामत्वादिकं प्रत्येकमस्य प्रवृत्तिनिमित्तमिति तत्तद्रूपावच्छ्त्रेि निक्षेपपदस्य सङ्केतः कर्तुं शक्यत इति वाच्यम् । व्याख्याङ्गत्वाविशेषे सत्सङ्ख्यादिषु न निक्षेपपदस्य सङ्केतो नामादिषु च सङ्केतः कृत इत्यस्य विनिगमकमन्तरेण नियन्तुमशक्यत्वात् । यथा च घटपटादिपदानामनादिकालतो लोकव्यवहारशास्त्रानुस्यूतानां सङ्केतः प्रतिनियतार्थगोचरोऽनादिकालत एवाऽऽगतो न पर्यनुयोगपात्रं नैवं निक्षेपपदसङ्केतः; तस्याऽऽर्हतसिद्धान्त एव सुदृढनिरूढत्वादतो भवितव्यं केनचिद् विनिगमकेनेति चेत् अत्रोच्यते । यथा वाक्यरचनां प्रति वाक्यार्थज्ञानत्वेन कारणत्वेन 'सन्नेव घट' इति वाक्यं प्रति 'सन्नेव घट' इति दुर्नयरूपवाक्यार्थज्ञानस्य, 'सन् घट' इति वाक्यं प्रति 'सन् घट' इति सुनय (नय) - रूपवाक्यार्थज्ञानस्य, 'स्यात् सन् घट' इति वाक्यं प्रति 'स्यात् सन् घट' इति प्रमाणरूपवाक्यार्थज्ञानस्य च कारणत्वमिति वाक्यविशेषरूपव्याख्यां प्रत्यपि प्रमाणनययोः कारणत्वमेतच्च व्याख्यास्वरूपाप्रविष्टतयैव तन्निष्पादकत्वमिति न व्याख्याङ्गताव्यपदेशमर्हति । विशेष्यविशेषणभावप्रतिपादनमुखेन प्रवर्तमानवाक्यसन्दर्भरूपव्याख्यानस्य यद्विशेष्यस्वरूपाविर्भावकं यच्च विशेषणस्वरूपोपदर्शकं तद् व्याख्यानस्वरूपघटकतया (व्याख्यानविषयिताव्यापकविषयिताकतया) अवयविस्वरूपसन्निविष्टावयववत् अङ्गभावं बिभर्ति । तत्र विशेषणस्वरुपाविर्भावकतया सत्सङ्ख्यादीनामङ्गतया व्याख्यानद्वारता, नामादीनां तु न विशेषणस्वरूपाविर्भावकतया, किन्तु कर्मधारयसमासैकनिविष्टविशेष्यभावापन्नवस्त्वभिधायकपदमात्रव्यवहितपूर्ववर्तितया विशेष्यस्वरूपविशेषविवेचनलक्षणविशेष्यस्वरूपाविर्भावकतया । एवं च कर्मधारयवृत्तिसमभिव्याहाराश्रयविशेष्यभावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तिवस्तुत्वव्यापकधर्मावच्छिन्नाशक्तविशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलवचनत्वं निक्षेपत्वमिति सामान्यलक्षणम् । १६
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy