SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्रव्यनिक्षेपप्रभवः परिणामवादः सत्कार्यवादपर्यवसायी साङ्ख्यस्य, विवर्त्तवादश्चाऽनिर्वचनीयतावादपर्यवसन्नो वेदान्तिनः । साङ्ख्यस्य च परिणामवादो न जैनाभ्युपगतपरिणामवादादभिन्नः । यदेवाऽनुगामि द्रव्यं सुवर्णादि तदेव कटकादिपूर्वपरिणामं परित्यज्य कुण्डलादिरूपेण परिणमते तदवस्थायामपि सुवर्णादिरूपं समस्त्येव, इत्येवं परिणामवादो जैनस्य । साङ्ख्यस्य तु प्रकृतिर्बुद्धिरूपेण परिणमते, बुद्धिरहङ्काररूपेणेत्येवं पूर्वपूर्वस्योत्तरोत्तररूपेण परिणाम इति । न च बुद्धिदशायां प्रकृतेः स्वरूपेणाऽवस्थानम् । यतः 'सत्त्वरजस्तामसां साम्यावस्था प्रकृतिः'; सा कथं सत्त्वादिगुणोपचयापचयावस्थायां बुद्ध्यादिरूपायां स्यात् ! । न चैवं सति पूर्वापरपर्यायानुगामित्वाभावाद् द्रव्यरूपताऽपि प्रकृतेविलीयेत, ततश्च द्रव्यनिक्षेपमूलकत्वं भज्येतेति वाच्यम् । त्रिगुणस्वरूपतामात्रमुपादायैव तत्र द्रव्यरूपतोपगमात् । त्रिगुणरूपता चाऽन्त्यविकृतावपि । यत उक्तं - "यथैकैव स्त्री रूपयौवनलावण्यकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः ?, तं प्रति सत्त्वगुणसमुद्भवात्; सपत्नी१:खाकरोति तत्कस्य हेतोः ?, ताः प्रति तस्या रजोगुणसमुद्भवात्; जनान्तरमविन्दमानं मोहयति, तं प्रति तस्यास्तमोगुणसद्भावात्' इति ।। वेदान्त्यभ्युपगतवादोऽपि न जैनपरिणामवादसमशीलः । तत्र यद्यपि जगतो मायापरिणामरूपतावादस्समस्ति; परिणामश्चोपादानसमसत्ताकोपादेयाविर्भावः इति परिणामरूपतामात्रेण तावन्मात्रे साम्यमाभासते । तथाऽपि सांङ्ख्यदर्शितदिशा परिणम्यपरिणमनभावोऽत्राऽपि । परमाणुवादमुररीकृत्य च जैनस्य परिणामवादो, नैवं वेदान्तिनः । ___ अयमभिप्रायः – यद्यपि पञ्चीकरणप्रक्रियया सूक्ष्मतन्मात्राणां स्थूलभूतरूपपरिणामे अन्योन्यसम्मेलनापेक्षा मायावादेऽपि विद्यते; तथापि मायाया यत्प्रथमतो विजातीयसूक्ष्मतन्मात्रारूपेण स्वन्यूनपरिणामवता परिणमनं न तत्र सजातीयान्तरसम्मेलनविभजनाद्यपेक्षा । जैनानां तु परमाणोः प्रथमतः स्कन्धात्मना परिणमने सजातीयान्तरसम्मेलनस्य, स्कन्धार्गतस्य तु अप्रदेशाणुरूपतया परिणमने विभागस्य नियमेनाऽपेक्षणादिति । विवर्त्तस्तु उपादानविषमसत्ताककार्यापत्तिरूपोऽत्यन्तं विविक्तः । विवर्त्तवादे च ब्रह्मैव जगद्रूपेणाऽवभासते, रज्जुरिव सर्पमालाद्यात्मना । तथा च कल्पितस्य जगतोऽधिष्ठानभूतब्रह्मसत्तातिरिक्तसत्ताकत्वाभाव एव ब्रह्मानुवेध: (ब्रह्मणो जगति नानारूपेऽनुगमनम्) । तत एव च द्रव्यरूपता ब्रह्मणः । न च नैयायिकाभिमतसत्तासम्बन्धात् सत्त्वं घटादेः कुतो नेति प्रष्टव्यम् । 'सन् घटः, सन् पट' इत्यादि प्रतीतिरेव सत्तासाक्षिणी; सा चाऽतिरिक्तसत्तातत्सम्बन्धकल्पनागौरवाद् बिभ्यन्ती सत्स्वरूपब्रह्मतादात्म्यमेव घटादीनामवगाहते । एव'मिष्टो घट' इत्यादिप्रतीत्याऽऽनन्दस्वरूपब्रह्मतादात्म्यं 'ज्ञातो घट' इत्यादिप्रतीत्या चैतन्यलक्षणब्रह्मतादात्म्यं च भासत इत्यनुगामिसच्चिदानन्दाकत्मरूपत्रययोगो जगतो ब्रह्मौपाधिकः । नामरूपात्मकाविद्यकरूपद्वययोगस्तु स्वतः । अत एवोक्तपञ्चरूपात्मकं जगद् गीयते, तद्विवेकायोक्तम् "सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत्" इति॥ भावनिक्षेपाऽभ्युपगन्ता नयोऽपि भावनिक्षेपः । स च सर्वस्य वस्तुनो भावस्वरूपतामेवाऽनुशास्ति, प्रमाणयति च – सर्वं वस्तु भावस्वरूपं, भावस्वरूपतामुपादायैव कार्यकारित्वाद् भावस्वरूपवदित्यनुमानम् । अस्यायमभिप्राय: - नहि शतकृत्व उच्चार्यमाणमपि घटनाम जलाहरणादिकार्यं विधातुमलम्; न वा २१
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy