SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ शास्त्र कुशाग्रमतयः श्रमणावतंसाः, देवर्द्धिपूज्यजिनभद्रगणिप्रधानाः । संरक्षिता श्रुतचितिः खलु लुप्यमाना, यैस्ते जयन्तु कृतिनो बहुपुण्यभाजः ॥६॥ प्राचोत्तमः श्रुतयशा हरिभद्रसूरिर्वेदाब्धिसिन्धुविधुना प्रमितान् (१४४४) महार्थान् । ग्रन्थान् विधाय यदरीनतनोदधस्ताद् विस्मर्यतेऽबुधजनैरपि तन्न जातु ||७|| टीका व्यधामभयदेवमनीषिवर्यो, गिर्यन्तसूरिमलयश्च महार्थभावाः । आलम्ब्य या बुधवराः प्रकटस्वरूपाः, शास्त्राणि सम्प्रति विना स्खलनां पठन्ति ॥८॥ यत्कीतियोषिदमला भुवने चरन्ती, मोदाय नो सहृदयस्य हि कस्य जाता । श्रीहेमचन्द्र-गुरुहीर-यशोमुनीन्द्रा, राजन्तु ते विविधशास्त्रविधानदक्षाः ॥९॥ जिग्ये कलङ्कमलिनां सितभानुकीर्ति, यः स्वीयनिर्मलयशःपटलेन शश्वत् । नित्यं जनोपकरणाभिरतो मुनीनां, श्लाघ्यः कथन्न महनीयपदः समूहः ॥१०॥ सबाह्मणेऽपि विदिताचरणाय तस्मै, ध्यानप्रलीनमनसे सुसमाधिभाजे । एकान्ततो हितकराय तपोरताय, नित्यं नमः समुदयाय महामुनीनाम् ||११|| तिग्मधुतिर्न स निवारयितुं शशाक, लोकप्रकाशकसहसकरैस्तमो यत् । तज्ज्ञानदिव्यविभया सकलं निरस्तं, यैस्ते महावतधराः श्रमणा जयन्तु ||१२॥
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy