________________
. || श्रीश्रमणस्तुतिषोडशिका ||
- आ. विजयहेमचन्द्रसूरिः
[वसन्ततिलकावृत्तम् ]
गीर्वाणकोटिमहितक्रमणा जयन्तु, वप्रे मणीकनकरूप्यमये विशाले । संराजिनः प्रवरधर्ममुपादिशंस्ते, तीर्थेश्वराः श्रमणसङ्घप्रवर्तका ये ॥१॥
श्रीतीर्थराजपदपङ्कजसेवनेन, सद्बीजबुद्धिकलितास्त्रिपदीमवाप्य । विश्वप्रबोधकुशला व्यधिकां दशाङ्गी
जग्रन्थुरुत्तमगुणा गणिनो विभान्तु ||२|| माली दुमाद् बुधवरः कुसुमानि चित्राण्यादाय गुम्फति यथा वरपुष्पमालाम् । प्राप्याऽवृभत् प्रवचनं जिनतोऽभिरामं, वर्ध्या तथा गणधरः शुचिशास्त्रमालाम् ।।३।।
श्रीमन्मुनिप्रभवमुख्यतमाः प्रपूज्याः, सज्ज्ञानिनो जगति पूर्वविदो जयन्तु । वैरागमाब्धिमतिसूक्ष्मधिया विगाह्य,
लोकाय तत्त्वममृतं परमं वितीर्णम् ||४|| श्रीआर्यरक्षितगुरुप्रमुखा जयन्तु, सिद्धादिसेनमुनयो महिमाभिरामाः । तिग्मांशुवत् प्रसृमरं भुवि यैर्निरस्तमज्ञानसन्तमसमाशु जिनेन्द्रवाग्भिः ॥५॥