________________
अनुवादः
यथार्थमानवः अनुवादकः मुनिधर्मकीर्तिविजयः
(गूर्जरमूलम् - अज्ञातम्)
यदा ते सर्वाणि मित्राणि
धैर्याद् विचलितानि स्युरेवं तवोपरि दोषारोपणं कुर्युस्तानि,
तदाऽपि धैर्यमालम्ब्य त्वं स्वस्थीभवः, एवंकरणेऽपि नोद्विग्नो भवेः; अन्येषां तिरस्कारानपि
सानन्दं सोढुं शक्नुयास्त्वम्; स्वप्नसेवी भवन्नपि त्वं स्वप्नाधीनो न भवेः;
विजये पराजये वा मनसः संतुलनं रक्षेस्त्वम्; तव आवश्यकानि कर्तव्यानि निष्ठापूर्वकं कर्तुं त्वं समर्थो भवेः,
सर्वजनैः सह संमीलनेऽपि त्वं स्वव्यक्तित्वं संधारयः, महानुभावानां समागमेनाऽपि
जनविमुखो न स्यास्त्वम् तदा निखिलाऽपि पृथ्वी तवैवाऽस्ति
एकस्त्वमेव यथार्थमानवोऽसि ।
४२