________________
चिति-प्राप्तिः डॉ. वासुदेवः पाठकः 'वागर्थः'
न मे नाममाला, न वर्णेषु बद्धः निवासश्च नास्ति, न कुत्राऽपि रुद्धः; न गौरत्वमेव न मे श्यामवर्णः अरूपस्स्मृतोऽहं सदाऽहं विवर्णः ॥
न मे दीनता नास्ति मे गौरवत्वम् न मे स्वर्गलोकः न मे रौरवत्वम्; न गन्तव्यमस्ति निवासश्च नैव निषेधे समग्रेडप्यहं सैव सैव ॥
न कृष्णो न रामो न कोडप्यस्ति देवः अहं चाऽस्मि सर्वत्र देवाधिदेवः; गता मे गता मे गता मोहनिद्रा अहो ! जागृतोऽहं चितिर्मे समग्रा ॥
विवादे विवादे विषादस्य जन्म विवादे समाप्ते विकासस्य जन्म । अतस्सुजलोकैः विचाव कार्या विषादे विकासे विवेकेन बुद्धिः ॥
३५४, सरस्वतीनगर, अमदावाद-१५
दूरभाषः ०७९-२६७४५७५४
२२