________________
४. अम्बोपचित्यै
व्यथावल्लकीतविकासु प्रहारं सखे ! मा कृथा दुःखरागोपपत्त्यै ॥३॥ श्रुतं यद् भवेत् कर्णिनी मृत्तिकाऽपि ततो वच्मि किञ्चित् स्वगेहस्य भित्त्यै ॥२॥
जगत्प्रत्यवायैः पीतं प्रतीतम् मया जीवनं दत्तमम्बोपचित्यै ॥३॥ तव ध्यानमारम्भणे केन्द्रितं भोः । सचिन्तोऽभवं किन्त्वहं कर्मक्लूप्त्यै ॥४॥ अहो स्वार्थहेतोः समेषां प्रयासः कथं यत्यते नो जनैलॊकतृप्त्यै ?? ॥५॥ धनी बाणभट्टः कथाऽऽख्यायिकायाः जिजीवानिशं कोऽपि गोविन्दगीत्यै ॥६॥
धियं वामनी वामनस्य प्रणौमि कवित्वात्मता येन दत्ताऽस्ति रीत्यै ॥७॥ अयं वक्ति गङ्गातटस्थां नु दिल्लीम् । नमो देशिकायाऽस्य तस्याऽप्यधीत्यै ॥८॥
कृतं रुग्णशय्याशतायुष्यहेम्ना । स्पृहा मे दृढा नीरुजेऽद्धास्त्यशीत्यै ॥९॥