________________
DA
ही
डयितुं लग्नः - कीदृशं कियन्तं वा वैभवमेतेनाऽहं प्राप्स्यामि ! कथं वा VAS तमुपभोक्ष्यामि - इत्यादि । पश्चात् श्रान्तः स विश्रान्त्यर्थं नद्यास्तीरे उपविष्टः । यमुनायाः प्रवहणस्य मधुरं गानं श्रुत्वा स शान्तो जातः । परितो विस्तीर्णा हसतामिव पुष्पाणां मनोहराणां च वृक्षाणां शोभां स निरीक्षितवान् । पक्षिणामानन्दमयं कलरवमपि स श्रुतवान् । समक्षमेव जायमानं सूर्यास्तमपि दृष्टवान् ।
ब्राह्मणस्य तस्य चित्तं दोलायमानमासीत् । एकत्र तं परितः शोभमानं निसर्गमाकर्षयति स्म, अन्यत्र च मणिप्रभावेन प्राप्स्यमानं वैभवमाकर्षयति स्म । सनातनगोस्वामी तस्य स्मृतिपथमायातः । बहु चिन्तितं तेन । विचारप्रवाहस्तस्य परिवृत्तो जातः ।
धावन्निव स ब्राह्मणः ऋषिमागत्य पादौ पतितवान् । साश्रुलोचनः स गद्गदस्वरेणोक्तवान् - "अपारसमृद्धिदायकं मणिमपि यो मृदमिव मत्वा दत्तवान् तस्य चरणरज एव पर्याप्तं मम । नैतेन मणिना किमपि प्रयोजनं मम" - कथयता स तं मणिं गभीरे जले क्षिप्तवान् ।
दानं ग्रहणं चोभयमपि तत्र सफलं जातम् ।
कार्यार्थी भजते लोको न कश्चित् कस्यचित् प्रियः। वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ।।
..
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org